________________
सप्तमो नर्तनाध्यायः
कीर्तिप्रागल्भ्यसौभाग्यवैदग्ध्यानां प्रवर्धनम् ॥ १० ॥ औदार्यस्थैर्यधैर्याणां विलासस्य च कारणम् । दुःखार्तिशोकनिर्वेदखेदविच्छेदकारणम् ॥ ११ ॥ अपि ब्रह्मपरानन्दादिदमभ्यधिकं ध्रुवम् । जहार नारदादीनां चित्तानि कथमन्यथा ॥ १२ ॥ न किंचिद् दृश्यते लोके दृश्यं श्राव्यमतः परम् । सर्वदा कृतकृत्ये नाप्य क्लिष्टेष्टप्रदायके ॥ १३ ॥
व्यरीरचत् । तेनैव रसप्रतिपादन सिद्धेरित्यर्थः । किमर्थमित्यपेक्षायां प्रयोजनं हेतुगर्भैर्चतुभिः विशेषणैराह - धर्मकामार्थेत्यादिना ॥ -३-९-॥
1
(क) नान्तरीयकतया कीर्त्यादयोऽपि रिष्टार्थाः सिध्यन्तीत्याहकीर्तिप्रागल्भ्येत्यादिना । प्रागल्भ्यं प्रौढता ; शास्त्रविषये । वैदग्ध्यं चतुरता ; लोकविषये । स्थैर्ये नाम प्रवृत्ताध्यवसायादचालनम् । धैर्ये तु शोकहर्षयोर्बुद्धेरेकरूपत्वम् । नाट्यादिप्रयोगदर्शनेन दुःखाद्यनिष्ट निवृत्तिरपि भवतीत्याह - दुःखार्तीत्यादि । दुःखं बाह्येन्द्रियपरितापः ; आर्तिर्वाचिकः परिताप: ; शोको मनसः संताप : ; निर्वेद: शून्यचित्तत्वम् ; खेद: कायिकः संताप इति दुखादीनां भेदा द्रष्टव्याः । पूर्वं नाट्यादेर्मोक्षसाधनत्वमुक्तम्, इदानीं तस्यैव मोक्षरूपतामर्थापत्या साधयति — अपि ब्रह्मेत्यादि । ब्रह्मविदामपि तेषां नारदादीनाम त्रासक्त्यतिशयादिति भावः । इदं न केवलं नारदादीनां मनो जहार ; अपि तु सकललोकस्यापीत्यभिप्रायेणाह - न किंचिद् दृश्यत इति । ननु विषयासक्तमनसो लोकस्य मनोहरत्वेनास्य कथमुत्कर्ष इत्याशङ्कयास्योत्कर्षत्वं दर्शयितुं विषय निवृत्तमनसाप्येतदनुसंधेय मित्याह - सर्वदेति । कृतकृत्येन ; कृतमृणत्रयापाकरणादिकृत्यं येन स तथोक्तस्तेन ; तस्यानन्तरमपि संसारप्रवर्तक धर्मसंचिकीर्षया कर्तव्यबुद्धेरभावः । कृतकृत्यशब्देन साधन
Scanned by Gitarth Ganga Research Institute