________________
संगीतरत्नाकरः ऋग्यजुःसामवेदेभ्यो वेदाचाथर्वणः क्रमात् । पाठ्यं चाभिनयान् गीतं रसान् संगृह्य पद्मभूः ॥९॥
न्यरीरचत्रयमिदं धर्मकामार्थमोक्षदम् । गीतप्राधान्यविवक्षया गान्धर्ववेद उच्यते । अभिनयप्राधान्यविवक्षया तु नाट्यवेद इति चोच्यते । तस्य च मुख्यवेदसारसंग्रहत्वं दर्शयितुमाहऋग्यजुरित्यादि । ऋग्वेदात्पाठ्यस्य संग्रहणम् ; तस्य मन्त्ररूपत्वेन शब्दप्रधानत्वादिति मन्तव्यम् । पाट्यं नाम वाचिकामिनेयः । यजुर्वेदादभिनयानां संग्रहमपि ; तस्य पाटाक्षरोद्घाटनं च । सामवेदात् गीतम् ; तस्य नादात्मकत्वादिति मन्तव्यम् । अथर्वणाद्रसानां शृङ्गारादीनां संग्रहणमपि ; तस्य मारणमोहनाद्यभिचारकर्मप्रतिपादकत्वेन रसप्रधानत्वादिति भावः । इदं त्रयमिति । नाट्यनृत्यनृतानीत्यर्थः । धर्मकामार्थमोक्षदमिति । यो यं यं पुरुषार्थमुद्दिश्य प्रयुङ्क्ते स स तस्य सिध्यतीत्यर्थः ॥ ३-९- ।।
(सु०) नर्तनं लक्षयति-नाट्यमिति । नर्तनं त्रिप्रकारम् ; नाटयं नृत्यं नृत्तमिति । एतेषां मूलोत्पत्तिमाह-नाट्यवेद मिति । चतुर्मुखो ब्रह्मा, भरतमुनये नाट्यवेदं वेदतुल्यं नाट्यशास्त्रं ददौ । तमध्यापयदित्यर्थः । तदधीत्य भरत: शंभोरप्रे नाट्यत्रितयं प्रायुनक् ; ततस्तत्प्रयोगदर्शनेनोद्धतं स्वप्रयुक्तं प्रयोगं स्मृत्वा तण्डुनाम्ना स्वगणमुख्येन हरो भरताय दर्शयामास । भरतस्य अग्रतः प्रीत्या पार्वत्याः लास्यम् समदीदृशत् । बुध्देति । तण्डोः सकाशात्ताण्डवं बुद्धा, भरतादयो मुनयो मनुष्येभ्योऽप्यवादिषुः । पार्वती तु बाणात्मजामुषाम् , लास्यम् अनुशास्ति स्म अशिशिक्षित । शास्तिईिकर्मकः । तया; उषया द्वारवतीगोप्यः, ताभिः ; गोपीमि: सौराष्ट्रयोषितः । ताभिः ; सौराष्ट्रनारीभिस्तु नानाजनपदाश्रिता: स्त्रियः शिक्षिताः । इत्थं परंपराप्राप्तमेतन्नाटयं लोके प्रतिष्ठामगमत् । ऋगिति । क्रमादृगादिवेदचतुष्टयात् वाद्यमभिनयं गीतं शृङ्गारादीन् रसांश्च गृहीत्वा इदं त्रयं गीतनृत्तवाद्यप्रतिपादकं शास्त्रं पद्मभूः ब्रह्मा
Scanned by Gitarth Ganga Research Institute