________________
सप्तमो नर्तनाध्यायः
नाट्यं नृत्यं तथा नृत्तं त्रेधा तदिति कीर्तितम् । नाट्यवेदं ददौ पूर्व भरताय चतुर्मुखः ।। ३ ।। ततश्च भरतः सार्धं गन्धर्वाप्सरसां गणैः । नाट्यं नृत्यं तथा नृत्तमग्रे शंभो: प्रयुक्तवान् ॥ ४॥ प्रयोगमुद्धतं स्मृत्वा स्वप्रयुक्तं ततो हरः । तण्डुना स्वगणाग्रण्या भरताय व्यदीदृशत् ।। ५ । लास्यमस्याग्रतः प्रीत्या पार्वत्या समदीदृशत् । बुद्धाथ ताण्डवं तण्डोर्मयेभ्यो मुनयोऽवदन् || ६ || पार्वती त्वनुशास्ति स्म लास्यं वाणात्मजामुषाम् । तया द्वारवती गोप्यस्ताभिः सौराष्ट्रयोषितः ॥ ७ ॥ ताभिस्तु शिक्षिता नार्यो नानाजनपदाश्रिताः । एवं परंपराप्राप्तमेतल्लोके प्रतिष्ठितम् ॥ ८ ॥
प्रत्यङ्गोपलक्षणम् । ततश्च प्रत्यङ्गक्रियारूपमाहर्यमभिनयनं यस्य शुभम् । तथा सात्त्विकमभिनयनं कम्पादिकं यस्य शुभम् ; तं नर्तनं नुम इति संबन्ध: । एवमुचितं मङ्गलमाचर्य विषयं प्रतिजानीते - शिवप्रसादेति । ईश्वरप्रसादेन प्राप्ता निःसीमा निरवधिका ज्ञानसंपत् येन ; तापकर्तनं संतापनाशकं निर्वापकमित्यर्थः ॥ १, २ ॥
(क०) विषयत्वेनोद्दिष्टं नर्तनं विभजति - नाटयमित्यादिना । तदिति । नर्तनम् । नाट्यादिभेदभिन्नस्य नर्तनस्येह गतिं दर्शयतिनाट्यवेदमित्यारभ्य, एतल्लोके प्रतिष्ठितमित्यन्तेन । नाट्यवेदमिति । वेद्यतेऽनेन धर्मार्थाविति व्युत्पत्या ऋगादिमुख्यवेदमूलत्वेन च चतुर्मुखेण दत्तस्य वेदत्वे सिद्धे तदर्थभूतनाट्यप्रतिपादकभरतमुनिप्रणीतस्य चतुर्विधपुरुषार्थफलस्य शास्त्रस्य वेदमूलत्वेन वैदिकत्वं वेदितव्यम् । अयमेवोपवेदेषु परिगणितश्च ; 'सामवेदस्योपवेदो गान्धर्ववेदः " इति । नाटयंवेद ए
(6
Scanned by Gitarth Ganga Research Institute