________________
संगीतरत्नाकरः शिवप्रसादसंप्राप्तनिःसीमज्ञानसंपदा ।
तन्यते शार्ङ्गदेवेन नर्तनं तापकर्तनम् ॥ २॥ मण्डलं यस्य आहार्य हारकेयूरादिविभूषणं भवति । सात्त्विकं ; सत्त्वगुणप्रधानम् । अत्र शिवशब्देन कूटस्थस्य परशिवस्य विवक्षितत्वात्तत्सात्त्विकं तस्याविरुद्धम् । तं शिवं नुम इति संबन्धः । अत्राङ्गिकादिशिवगुणवाचकैः श्लिष्टशब्दैः प्रकरणप्रतिपाद्यस्य नर्तनस्याभिधानमपि द्रष्टव्यम् । एवमिष्टदेवतां स्तुत्वा प्रकरणस्य विषयादीन् दर्शयति-शिवप्रसादेत्यादिना। शिवप्रसादसंप्रदानिःसीमज्ञानसंपदा शार्ङ्गदेवेन मया तापकर्तनं नर्तनं तन्यत इति संबन्धः । तत्र नर्तनं विषयः । तापकर्तनमित्यनेनाध्यात्मिकादितापत्रयोच्छेदः प्रयोजनं दर्शितम् । तदर्थिन एवाधिकारिण आक्षिप्यन्ते । संबन्धस्तु तापत्रयोच्छेदननर्तनयोः साध्यसाधनभावः । नर्तनस्य ग्रन्थस्य च प्रतिपाद्यप्रतिपादकभावः ॥ १, २ ॥
सुधाकरः गीतवाद्ये उक्ते, अशिष्टं नृत्तं विवक्षुस्तत्सूचक मङ्गलमाचरति-आङ्गिकमिति । तं शिवं शंकरं नुमः वर्णयामः । यस्य सर्व भुवनमानिकम् , अङ्गानां समूह आङ्गिकम् ; पृथिव्याद्यष्टमूर्तित्वात् । सर्वं च वाङ्मयं विद्याजातं यस्य वाचिकम् वाक्समूहः; 'निःश्वसितमस्य वेदाः' इति श्रुतत्वात् । चन्द्रनारदि यस्याहार्य कार्यम् ; सकलजगत्कर्तृकत्वात् । अथवा चन्द्रतारादि यस्याहर्यमलंकरणम् ; चन्द्रमौलित्वात् । सात्त्विकं सत्त्वगुणप्रधानम् ; यद्यपि पुराणादिषु तमोगुणः परमेश्वरः श्रूयते ; तथापि हरिहरयोरभेदविवक्षयोक्तम् । अथवा सत्त्वं सत्ता, तयोपलक्षितः सात्त्विकः, तमित्यर्थः । पक्षे तन्नृत्तं नुमः । यस्य भुवनं सर्वमाङ्गिकमभिनयनम् ; शिवं शुभमित्यर्थः । तथा वाचिकमभिनयनं सर्वसंबन्धाभिर्वाग्भिर्मीयत इति वाङ्मयम् ; तदपि शुभम् । चन्द्रतारादि, आहार्यमभिनयनम् ; चन्द्रशब्देन अङ्गोपलक्षणं मुखं लक्षयित्वा तारकान्वितया तया
Scanned by Gitarth Ganga Research Institute