________________
४२६
संगीतरत्नाकरः ननु चाव्यभिचारेण भावस्य स्थायिता मता ॥ १४५६ ॥ स्थायी तत्कथमुत्साहो वीरेऽप्येष भविष्यति । मैवं क्षणिकविद्योता विद्युद्वयभिचारिणः ॥ १४५७ ।। स्थिराः स्युः स्थायिनस्तेन द्विरूपोऽयं रसद्वये ।
(सु०) अथ संचारिणं लक्षयति--उत्साह इति । यत्र क्रोधः स्थायी, स रौद्रो रसः । तत्र स्वेदः साक्षादभिनेयः । वेति पक्षान्तरे । अथवा स्वेदः साक्षादभिनेतुमशक्यश्चेत् व्यजनादिना अभिनेय इति । अत्र वीरस्य संकरमाशङ्कते-उत्साहस्त्विति ॥ १४५४, १४५५- ।।
(क०) एवं तङ्केकस्यैव भावस्य व्यभिचारित्वं स्थायित्वं च मिथो विरोधादुभयं न संगच्छत इति शङ्कते-ननु चेति । भावस्योत्साहादेरव्यभिचारेण । व्यभिचारोऽत्रानयत्यं विवक्षितम् । तदभावश्चाव्यभिचारः । एकैकरसप्रतिनियतत्वमित्यर्थः । तेनाव्यभिचारेण स्थायिता मता दृष्टा । तत्तस्मात्कारणादेष उत्साहो वीरस्थायी कथं भविष्यति । रौद्रानुप्रवेशाद्व्यभिचारी भवन्नयमुत्साहो वीरनैयत्याभावात्तत्र स्थाय्येव न भवतीत्याक्षेपार्थः ।। -१४५६, १४५६- ॥
(क) परिहरति-मैवमिति । व्यभिचारिणो भावा विद्युद्वत: तडिदिव क्षणिक विद्योताः; क्षणकालप्रकाशा अस्थिरा यतो भवन्ति, अतस्तेषां व्यभिचारित्वं न त्वनैयत्येनेति भावः । स्थायिनः स्थिराः स्युरिति । स्थिरा अक्षणिका यतोऽत एव तेषां स्थायित्वं न त्वेकैकरसं प्रति नियतत्वेनेति भावः । तेन कारणेनायमुत्साहो रसद्वये वीररौद्रयोविरूपः । वीरे स्थायी रौद्रे व्यभिचारीति रसयोर्न सांकर्यमित्यर्थः ॥ -१४५७, १४५७- ॥
Scanned by Gitarth Ganga Research Institute