SearchBrowseAboutContactDonate
Page Preview
Page 467
Loading...
Download File
Download File
Page Text
________________ सप्तमो नर्तनाध्यायः ४२५ उत्साहसम्यग्बोधौ चामर्षावेगौग्यचापलम् । स्वेदवेपथुरोमाञ्चगद्दस्वरतादयः॥ १४५४ ॥ भावाः संचारिणः स्थायी क्रोधो रौद्राभिधो रसः । साक्षात्स्वेदोऽभिनेयो वा व्यजनग्रहणादिना ॥ १४५५ ॥ उत्साहस्त्वत्र संचारी न चास्माद्वीरसंकरः। विद्यते, तत्साक्षान्न प्रयोक्तव्यम् । किंतु नटैः परं केवलं कीर्तनीयम् ॥ ॥ १४५१-१४५३ ॥ __(सु०) अथानुभावानाह-भृकुटीति । भृकुट्यादयः पूर्वमुक्ताः । अत्र तलशब्देन हस्तपादतलं विवक्षितम् । छेदः नखादीनां कर्म । मर्द: भयादिना अङ्गमर्दः । पाटनं नाम स्वकराभ्यामन्यस्यावयवस्य द्वैधीकरणम् । मोटनम् ; अङ्गानां भञ्जनम् | छुरिकादीनां ग्रहणम् | पातः पराङ्गं प्रति शस्त्रादीनां प्रवणीकरणम् | प्रहारः क्षतिः । रुधिरजुतिः रुधिरस्य स्रावः, एवमादयोऽन्येऽप्यत्रानुभावत्वेन विवक्षिताः । तेषां मध्ये छुरिकादीनां कर्म न साक्षात्प्रयोक्तव्यमिति ॥ १४५१-१४५३ ॥ (क०) अथ संचारिण अह-उत्साहेत्यादि । यत्र क्रोधः स्थायी भवति, स रौद्राभिधो रसः। तत्र स्वेदः साक्षादेवाभिनेयः। ताडनादिवत्सूचनीय एव न भवतीत्यर्थः । वेति । अथवा स्वेदः साक्षादभिनेतुमशक्यश्चेत्तदा व्यजनग्रहणादिना सोऽभिनेयो भवति । ननूत्साहस्यात्राप्यनुप्रवेशाद्वीरेणास्य संकरः प्रसज्येतेत्याशङ्कयाह---उत्साहस्त्वित्यादि । अत्र रौद्र उक्तः, उत्साहस्तु यतः संचारी न स्थायीत्यर्थः । अस्मात्कारणाद्वीरसंकरश्च न । वीररौद्ररसयोरुत्साहसद्भावस्याविशेषेऽपि वीरे स्थायित्वेन रौद्रे संचारित्वेनोसाहस्य भिन्नस्य भिन्नरूपत्वाद्वीररौद्रयोर्न सांकर्यमित्यर्थः ॥ १४५४, १४५५.॥ 54 Scanned by Gitarth Ganga Research Institute
SR No.034230
Book TitleSangit Ratnakar Part 04 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1953
Total Pages642
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size277 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy