________________
४२४
संगीतरनाकरः भृकुटीनेत्ररक्तत्वं कपोलस्फुरणं तथा। दन्तोष्ठपीडनं हस्तनिष्पेपोऽथान्यविग्रहे ॥ १४५१॥ तलायैस्ताडनं छेदो मर्दः पाटनमोटने । शस्त्राणां ग्रहणं पातः प्रहारो रुधिरसुतिः ॥ १४५२ ॥ एतेऽनुभावास्तेषां तु कर्म यत्ताडनादिकम् । न तत्साक्षात्प्रयोक्तव्यं कीर्तनीयं परं नटैः ॥ १४५६ ॥
(सु०) अथ रौद्रस्य विभावानाह-हन्तृप्रकृतय इति । हन्तप्रकृतयः हननस्वभावा इत्यर्थः । अत्रादिशब्देन चोरादयो विवक्षिताः । अन्यकृतः क्रोधोऽन्यस्य विभावो भवति । तत्र हेतु:-परदारेति । आदिशब्देन क्षेत्रवित्तादयो गृह्यन्ते । तथा परस्य देशजाति कुलाचारविद्यानिन्दाः; वधनिमित्तकान्यदारयात्रादिप्रतिज्ञायां परुषोक्तिः, गृहादिभञ्जनम् , राज्यस्य हरणम् , तथा मत्सरश्च, एवमादयो यत्र विभावा भवन्ति ॥ १४४८-१४५० ॥
(क०) रौद्रस्यानुभावानाह-भृकुटीत्यादि। अथान्यविग्रह इति। पूर्वोक्ता भृकुटीनेत्ररक्तत्वादयः स्वविग्रह आत्मनः शरीरे भवन्ति । वक्ष्यमाणास्तलायैस्ताडनादयोऽन्य विग्रहे परस्य रौद्रालम्बन विभावम्य विग्रहे शरीरे स्वेन रौद्राधिष्ठानभूतेन कृता भवन्ति । तलायैरिति । अत्र तलशब्देन हस्तपादतलमुच्यते । आदिशब्देन मुष्टयादयो ग्राह्याः । तैस्ताडनं रौद्रानुभावः । छेदः; नखादिभिः कृतः । मर्दः; भीत्यादि. संश्लेषेणाङ्गमर्दनम् । पाटनमोटने इति । पाटनं नाम स्वकराभ्यामन्यस्य कराद्यवयवं गृहीत्वा तस्य द्वेधीकरणम् । मोटनं नाम पूर्व गृहीत्वा तदङ्गानां भञ्जनम् । शस्त्राणां छुरिकादीनां ग्रहणम् । पात:; गृहीतानां शस्त्राणां पराङ्गं प्रति प्रवणीकरणम् । प्रहारः; प्रवणैः शनैः कृता क्षतिः । रुधिरसूतिः; प्रहारोत्पन्नस्य रुधिरस्य स्रावः । तेषां मध्ये यत् त्रोटनादिकं कर्म
Scanned by Gitarth Ganga Research Institute