________________
सप्तमो नर्तनाध्यायः
शिरःकल्पितनिश्वासं स्फुरदोष्ठकपोलकम् ।
कटाक्ष भ्रुकुटीवक्रं स्त्रीणामीयकृतं भवेत् ।। १४४६ ।। धैर्यादुत्तममध्यानां नाश्रु स्वव्यसने स्रवेत् । परस्थे तु स्रवेन्नारीनीचानां तूभयत्र तत् ।। १४४७ ॥ इन्दप्रकृतयो रक्षोदैत्याद्यन्यायकारिणः । युद्धं क्रोधोऽनृतं वाक्यं परदारादिधर्षणम् ।। १४४८ । देशजातिकुलाचारविद्यानिन्दा परस्य च । वधान्यदारयात्रादिप्रतिज्ञापरुषोक्तयः ॥। १४४९ ॥ गृहादिभञ्जनं राज्यहरणं मत्सरस्तथा । जिघांसाद्याश्च यत्र स्युर्विभावाः परिकीर्तिताः १४५० ॥
४२३
(क० ) ईर्ष्याकृतं लक्षयति - शिरः कम्पितनिश्वासमित्यादि । उत्तममध्यानां पुंसामश्रु स्वव्यसन आत्मदुःखे न स्रवेत् । परस्थे व्यसने तु त्रेत् । नारीनीचानां तु तद्रुदितम् । उभयत्र स्वपरव्यसनयोरित्यर्थः ॥ १४४६ १४४७ ॥
इति करुणः
(To) अथ रौद्रं लक्षयितुं प्रथमं तद्विभावानाह - हन्तृप्रकृतय इत्यादि । हन्तृप्रकृतयः ; हन्तृत्वं प्रकृतिर्येषां ते ; हननस्वभावा इत्यर्थः । ते च रक्षोदैत्याद्यन्यायकारिणः । आदिशब्देन चोरादयो गृह्यन्ते । क्रोध इति । अन्यकृतः क्रोधोऽन्यरौद्रस्य विभावो भवति । परदारादिधर्षणमिति । अत्रादिशब्देन क्षेत्रवित्ताद्यपहरणं गृह्यते । अन्यदारयात्रादिप्रतिज्ञा परस्त्रीगमनप्रतिज्ञा । आदिशब्देन तदपहरणादिप्रतिज्ञा गृह्यते ॥ १४४८
१४५० ॥
Scanned by Gitarth Ganga Research Institute