________________
४२२
संगीतरत्नाकरः धर्मोपघातजो वित्तनाशजो बन्धुनाशनः ॥ १४४२॥ करुणस्त्रिविधस्तेषामुत्तमेष्वेव पूर्वजः । वेधा रुदितमानन्दाीाहेतुकृतं भवेत् ॥ १४४३ ॥ दुःखस्मृतियुतानन्दाज्जातं फुल्लकपोलकम् । सरोमाश्चमपाङ्गस्थवाष्पमानन्दजं मतम् ॥ १४४४ ॥ उच्चैः स्वरविलापं च सभ्रूपान्तविवर्तितम् ।
स्रुताश्रुधारमस्वस्थचेष्टाङ्गं चार्तिजं मतम् ॥ १४४५ ॥ यद्रोदनं विद्यते, तदिदं रोदनं शब्दकोविदैः परिदेवनमित्युक्तम् ॥ १४४११४४१-॥
(क०) करुणस्य त्रैविध्यमाह-धर्मोपघातन इत्यादि । उत्तमेष्वेव ; उत्तमप्रकृतिप्वेव भवतीति नियमः । तेन वित्तनाशजबन्धुनाशजयोरुत्तमादिष्वनियमो द्रष्टव्यः ॥ -१४४२-१४४२- ॥
(क०) रुदितस्य त्रैविध्यमाह-आनन्दातीतिकृतमिति । एकस्य रुदितस्यानन्दो हेतुः। अन्यस्यार्तिहेतुः । अपरस्या हेतुरित्यर्थः ॥ -१४४३ ॥
(क०) दुःखस्मृतियुतानन्दाजातमिति । दुःखस्मरणपूर्वको य आनन्दस्तस्माज्जातं रुदितं लक्षयति-पुल्लकपोलकमिति । केवलानन्दाज्जातं लक्षयति-सरोमाञ्चमित्यादि ॥ १४४४ ॥
(क०) केवलदुःखाज्जातं लक्षयति-उच्चैः स्वरविलापमित्यादि । सभ्रपान्तविवर्तितम् ; भ्रूपान्तविवर्तिताभ्यां सहितम् । सुताश्रुधारम् ; सुता अवारा यस्मिन्निति तथोक्तम् । अस्वस्थचेष्टाङ्गम् ; स्वस्था चेष्टा न विद्यते येषां तान्यस्वस्थचेष्टानि तादृशान्यजानि यस्मिन्निति तथोक्तम् ॥ १४४५ ॥
Scanned by Gitarth Ganga Research Institute