________________
सप्तमो नर्तनाध्यायः
४२१ विलापो रोदनं शोच्यगुणस्तवपुरःसरम् । स्यादेवात्मपराणां यदुपालम्भेन रोदनम् ॥ १४४१॥
परिदेवनमित्युक्तं तदिदं शब्दकोविदैः । इति लक्षणयोगेन यथानुभावत्वमुपपन्नं तथा—“विशेषादाभिमुख्येन चरन्तो व्यभिचारिणः" इत्यस्थिरत्वलक्षणयोगेन संचारित्वमुपपन्नमेवेति । एवमुक्ता ग्लान्यादयः संचारिणो यत्र भवन्ति । यत्र शोकः स्थायी भवति स करुणो मतः । व्यवस्थेत्यादि । अत्र करुण उत्तमादीनामुत्तममध्यमाधमानां पुंसां योग्यत्वात्तत्तत्मकृत्युचितत्वेनानुभावानां पूर्वोक्तानामश्रुपातादीनां व्यवस्था नियमः कर्तव्यः ॥ -१४४० ॥
(सु०) अनुभावानां व्यवस्थामाह-व्यवस्थेति । उत्तमादिषु, उत्तममध्यमाधमपात्रेषु योग्यत्वात् ; तत्तत्प्रकृतिगुणोचितत्वेन पूर्वोक्तानुभावानां व्यवस्था कर्तव्या । विलापपरिदेवनयोः स्वरूपं लक्षयति-विलाप इति । विलापो नाम कृतस्य कर्मणोऽनुचितत्वधियानुतापः । परिदेवनं नामानुशोचनोक्तिः । करुणस्य त्रैविध्यं लक्षयति-धर्मेति । धर्मोपघातजः, वित्तनाशजः, बन्धुनाशज इति । तत्र पूर्वज उत्तमेष्वेव । अपरौ त्वनियम इति । रुदितस्य त्रैविध्यं लक्षयति-त्रेधा इति । रुदितं त्रिविधम् , आनन्दाीाभेदात् । उत्तमस्य आनन्दो हेतुः, अन्यस्य आतिहेतुः, अपरस्य ईध्येति । तत्रानन्दजं लक्षयति-दुःखेति । दुःखस्मरणपूर्वकात् यत्र विकसितकपोलकम् , रोमाश्चमपाङ्गस्थबाष्पं यत्र भवति, तदानन्द जम् । आतिजं लक्षयति-उच्चैरिति । ईर्ष्याकृतं लक्षयति-शिर इति ॥ -१४४०-१४४७ ॥
इति करुण: (क०) विलापनपरिदेवनयोः स्वरूपमाह-विलाप इत्यादि । शोच्यगुणस्तवपुरःसरं रोदनं विलाप: स्यात् । दैवात्मपराणामुपालम्भेन
Scanned by Gitarth Ganga Research Institute