________________
सप्तमो नर्तनाध्यायः
४२७
ननु स्थाय्यपि भावत्वान्निसर्गात्क्षणिको भवेत् ।। १४५८ ॥ सत्यं किंतु स संस्काररूपेण स्थायितां गतः । तत्तिरस्कृतसंस्कारास्त्वन्ये तत्स्थैर्ययोगिनः ।। १४५९ ।। आविर्भावतिरोभावधर्माणश्चात्र यन्त्रिताः ।
(क०) भावानां स्थिरत्वमाक्षिपति - नन्विति । स्थाय्यपीति । भवतः स्थायित्वेनाभिमतो रत्यादिरपीत्यर्थः । भावत्वादिति । मनोवि - कारत्वात् । निसर्गात्क्षणिकः; स्वभावेन क्षणिकः । क्षणिकत्वं नाम त्रिक्षणावस्थायित्वम् । यथोक्तम् - " शब्दबुद्धिकर्मणां त्रिक्षणावस्थायित्वम् " इति । भावमात्रस्य क्षणिकत्वाद्व्यभिचारित्वमेवेति भावः । अर्धाङ्गीकारेण परिहरति — सत्यमिति । स रसस्याविर्भावः संस्काररूपेण भावनाख्यसंस्कारात्मना न स्थायितां गतः स्थैर्ये प्राप्तः । अत्र क्षणिकत्वाङ्गीकादर्धाङ्गीकारः । संस्कारस्य स्थायित्वोक्तेः परिहारः ॥ - १४५८, १४५८- ॥
(क) एवं तर्हि संस्काररूपत्वाविशेषेण निर्वेदादयोऽपि कथं न स्थायिन इत्यत आह--- तत्तिरस्कृत संस्कारा इति । तेन स्थायिना प्रबलेन रत्यादिना तिरस्कृतसंस्कारा अभिभूतभावनाः । तेषां दुर्बलत्वाद्वयवहितसंस्काराः सन्तः । अन्ये तु निर्वेदादयस्तु स्थैर्ययोगिनः स्थायिनो न भवन्ति । एतदुक्तं भवति - " संस्काररूपेणापि यः प्रबलः स स्थायी, यो दुर्बल: स व्यभिचारी ” इति । तदेवाह - आविर्भावेत्यादि । अत्र स्थायिसंचारि - त्वविषय आविर्भावधर्मेण स्थायी, तिरोभावधर्मेण संचारीति यन्त्रिता नियन्त्रिता ज्ञेयाः ॥ - १४५९, १४५९-॥
Scanned by Gitarth Ganga Research Institute