________________
४१८
संगीतरत्नाकरः
सशब्दं मधुरं कालागतं वदनरागवत् । माकुञ्चिताशिगण्डं च विदुर्विहसितं बुधाः || १४२८ ॥ निकुञ्चितांसशीर्षश्च जिह्मदृष्टिविलोकनः ।
उत्फुल्लनासिको हास्यो नाम्नोपहसितं मतः ।। १४२९ ॥ अस्थानजः सादृष्टिराकम्प कन्धमूर्धकः । शार्ङ्गदेवेन गदितो हास्योऽपहसिताहयः ।। १४३० ॥ स्थूलकर्णः कटुध्वानो बाप्पपुरप्लुतेक्षणः । करोपगूढपार्श्वश्व हास्योऽति हसितं मतः ॥ १४३१ ॥ पूर्वाणि स्वसमुत्थानि स्मितादियुगलत्रये । पराणि त्वपरस्थानि हास्योऽविहसितं मतः ।। १४३२ ॥ हास्यरौद्रावपि त्रेधा वाङ्नेपथ्याङ्गचेष्टितैः ।
उपलक्षणमेतत्तु तेषां सर्वेषु संभवात् || १४३३ ॥ इति हास्य : (२)
स्मितादियुगलत्रये पूर्वाणि स्मितविहसितापहसितानि स्वसमुत्थानि । पराणि त्विति । हसितोपहसितातिह सितानि त्वपरस्थानि । तत्र हेतुमाहपूर्वसंक्रान्तिजवत इति । परेषां हसितादीनां स्मितादिसंक्रान्त्या जातत्वात्परोत्थस्त्रं द्रष्टव्यम् । अयमर्थः - उत्तमपुरुषनिष्ठं स्मितं दृष्ट्टा उत्तमपुरुषान्तरस्य हसितं जायते । तथा मध्यमपुरुषनिष्ठं विहसितं दृष्ट्रा मध्यमपुरुषान्तरस्योपहसितं जायते । तथा नीचपुरुषनिष्ठमपहसितं दृष्टा नीच पुरुषान्तरस्यापहसितं जायते । एवं स्मितादियुगलत्रये परेषां परस्थत्वं पूर्वेषामात्मस्थत्वं द्रष्टव्यमिति । एतदुक्तं भवति "आत्मस्थापेक्षया परस्याधिक्यं भवति" इति । हासस्य पुनस्त्रैविध्यमाह - हास्यरौद्रावपीत्यादि । हास्यरौद्रावित्येतदुपलक्षणम् । यतस्तेषां सर्वेषु संभवादिति ।
Scanned by Gitarth Ganga Research Institute