________________
४१९
सप्तमो नर्तनाध्यायः इष्टबन्धुवियोगश्च श्रीनाशो वधबन्धने । व्यसनप्रभवोऽनर्थः सुतादिनिधनं तथा ॥ १४३४ ॥ देशभ्रंशादयश्चैते श्रुता यद्वा विलोकिताः । विभावाः संमताः पुंसामुत्तमानां पराश्रिताः ॥ १४३५॥
मध्यमाधमपुंसां तु ते स्युरात्मैक्यगोचराः। तेषां वाङ्नेपथ्याङ्गचेष्टितानां त्रयाणां भेदानां सर्वेषु रसेषु संभवात् विद्यमानत्वादिति ॥ १४२६-१४३३ ॥
इति हास्यः (२) (सु०) स्मितादीनां षण्णां प्रत्येकं लक्षणमाह-ईषदिति । यत्र ईषद्विकसितौ कपोलौ ; अनुल्बणौ कटाक्षौ ; दशनोऽदृश्यः, मन्थरो हास्यो भवति, तद् स्मितम् । यत्र वक्त्रनेत्रकपोलानि विकसितानि भवन्ति ; दन्तांश्च ईषल्लक्षितानि ; तद् हसितम् । एवमन्येऽपि ॥ १४२६-१४३३ ॥
इति हास्यः (२) (क०) अथ करुणं लक्षयितुं तस्य विभावनाह–इष्टबन्धुवियोगश्चेत्यिादि । श्रीनाशः; श्रियः संपदो नाशः । व्यसनप्रभवोऽनर्थ इति । द्यूतमद्यादिव्यसनर्जतोऽनर्थः । उत्तमानां पुंसां स्वगताः पराश्रिताश्च यत्र विभावा भवन्तीत्यन्वयः । आत्मैकगोचरा इति । मध्यमाधमपुंसां तु पराश्रिता न विभावा इत्यर्थः ॥ १४३४-१४३५- ॥
(सु०) अथ करुणं लक्षयति-इष्टेति । यत्र इष्टबन्धुवियोगश्च, संपदो नाशः, वधबन्धने, चूतमद्यादिश्यसनजातोऽनर्थः, तथा सुतादिनिधनम् , देशभ्रंशादयश्च श्रुताः; अथवा विलोकिता वेत्याद्या विभावा भवन्ति । एते उत्तमानां पुंसां स्वगताः पराश्रिता भवन्ति । मध्यमाधमपुंसां तु ते विभावा आत्मैकगोचरा भवन्ति ॥ १४३४-१४३५- ॥
Scanned by Gitarth Ganga Research Institute