SearchBrowseAboutContactDonate
Page Preview
Page 459
Loading...
Download File
Download File
Page Text
________________ ४१५ सप्तमो नर्तनाध्यायः ईपत्फुल्लकपोलाभ्यां कटाक्षैरप्यनुल्वणैः । अदृश्यदशनो हास्यो मन्थरस्मितमुच्यते ॥ १४२६ ॥ वक्त्रनेत्रकपोलैश्चेदुत्फुल्लैरुपलक्षितः । किंचिल्लक्षितदन्तश्च तदा हसितमिष्यते ॥ १४२७ ।। कारणत्वेन येऽर्था दृष्टास्ते ग्राह्याः । यस्य अनुभावास्त्विति व्यवहितैरपि संबन्धः । अथ व्यभिचारिण इत्यत्र स्थायिभावश्च हासः स्यात् इत्यत्रापि यस्येत्यनुसंधेयम् । असौ हास्य इति । पूर्ववाक्येषु यस्येति यच्छब्देन योऽभिहितः सोऽसाविति परामृश्यते । विभावेक्षणमात्रत इति । आत्मस्थस्य हास्यस्य तावतैवोत्पत्तिदर्शनात् । परस्थो हास्यस्तु हसन्तमपरं विभावांश्च दृष्टोपजायते । व्यवस्थ इति । उत्तमो मध्यमो नीच इत्यर्थः । तेषामेव प्रत्येकं भेदद्वयमाह-स्मितं चेत्यादि ॥ १४१६-१४२५ ॥ (सु०) हास्यं लक्षयति-वेपेति । यत्र वेषालंकारगमनवचसां विकारित्वं, परस्थानां वेषादीनामनुकारश्च, विलजत्वम् , विषयतृष्णा, असंगतभाषणमित्याद्या विभावा भवन्ति । नासिकयोः, कपोलयोः, ओष्ठयोश्च स्पन्दः; दृष्टयोविकसनम् ; अत्यन्तमीलनं च ; ईषत्कुञ्चनम् , पार्श्वपीडनम् , प्रस्वेदमुखरागादयश्चानुभावा भवन्ति । स्वप्नावहित्थालस्यनिद्रातन्द्रादयः, अन्ये च स्मितादिभेदव्यवस्थिता व्यभिचारिणो भवन्ति । हासश्च स्थायी भवति, तत्र हास्यः । स द्विविधः, आत्मस्थः, परस्थ इति । अन्यदीयविभावेक्षणमात्रज आत्मस्थः; हसन्तमन्यं दृष्ट्वा यत्र विभावांश्चोपजायते, असौ परसंस्थः । असौ हास्यः उत्तममध्यमनीचभेदेन व्यवस्थो भवति । तस्य षड्भेदाः सन्ति । उत्तमे पुरुषे, स्मितं हसितं च भवति । मध्यमे पुरुष, विहसितम् , उपहसितं च भवति। नीचे पुरुष, अपहसितम् , अतिहसितं च भवतीति ॥ १४१६-१४२५ ॥ (क०) स्मितादीनां प्रत्येकं लक्षणमाह-ईपत्फुल्लेति । पूर्वाणीति। Scanned by Gitarth Ganga Research Institute
SR No.034230
Book TitleSangit Ratnakar Part 04 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1953
Total Pages642
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size277 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy