________________
संगीतरत्नाकरः हासनीयस्य कक्षादिसंस्पर्शः कुहनावहः ।। १४१७ ॥ इत्यादयो विभावाः स्युरनुभावास्तु नेत्रयोः । कपोलयोरोष्ठयोश्च स्पन्दो दृष्टयोर्विकासनम् ॥ १४६८ ॥ अत्यन्तमीलनं किंचित्कुश्चनं पार्श्वपीडनम् । प्रस्वेदमुखरागाद्या यस्याथ व्यभिचारिणः ॥ १४१९ ॥ स्वमोऽवहित्थमालस्यनिद्रातन्द्रादयोऽपरे । एते स्मितादिभेदेषु यथायोगं व्यवस्थिताः ॥ १४२० ॥ स्थायिभावश्च हासः स्यादसौ हास्यः प्रकीर्तितः । आत्मस्थः परसंस्थश्चेत्यस्य भेदद्वयं मतम् ॥ १४२१ ॥ आत्मस्थो द्रष्टुरुत्पन्नो विभावेक्षणमात्रतः । हसन्तमपरं दृष्ट्वा विभावांश्चोपजायते ॥ १४२२ ।। योऽसौ हास्यरसस्तज्ज्ञैः परस्थः परिकीर्तितः । उत्तमानां मध्ममानां नीचानामप्यसौ भवेत् ।। १४२३ ॥ व्यवस्थः कथितस्तस्य षड्भेदाः सन्ति चापरे । स्मितं च हसितं प्रोक्तमुत्तमे पुरुषे बुधैः ॥ १४२४ ।। भवेद्विहसितं चोपहसितं मध्यमे नरे। नीचेऽपहसितं चातिहसितं परिकीर्तितम् ।। १४२५ ।।
विकृतत्वं हास्यस्य विभावो भवति । एतेषां वेषादीनां परस्थानामविकृतानामपि परस्वभावभूतानामनुकारोऽस्य हास्यस्य विभावो भवति । हासनीयस्य ; हासयितुमिष्टस्य जनस्य । कुहनावहः ; कुहनां कपटमावहतीति तथोक्तः । एवंहासयामीति कपटेन परस्य कक्षादिसंस्पर्शश्च तद्धासकरणं भवति । कक्षादीत्यादिशब्देन पार्श्वप्रदेशादि गृह्यते । इत्यादय इति । लोके हास्य
Scanned by Gitarth Ganga Research Institute