________________
, सप्तमो नर्तनाध्यायः
४१५ अभिलापस्ततश्चिन्तानुस्मृतिर्गुणकीर्तनम् । उद्वेगोऽथ विलापः स्यादुन्मादो व्याधिसंभवः ॥ १४१२ ।। जडता मरणं चेति दशावस्थाः प्रकीर्तिताः । भोक्ता प्रधानो भोग्या तु कान्ता तदुपसर्जनम् ॥ १४१३ ॥ अतो नरान्तरासक्तिस्तस्याः शृङ्गारभङ्गकृत् । भोक्तुस्त्वपरतन्त्रत्वात्कान्तान्तरमभञ्जकम् ॥ १४१४ ।। वाङ्नेपथ्याङ्गचेष्टाभिः शृङ्गारस्त्रिविधो मतः । रामादिव्यञ्जको वेषो नटे नेपथ्यमिष्यते ॥ १४१५ ॥
इति शृङ्गारः वेषालंकारगमनगदितानां विकारिता। एतेषां च परस्थानामनुकारो विलज्जता ॥ १४१६ ॥
विषयेऽरुचिता दृष्टयाप्यसंगतविभाषणम् । कामशास्त्र इत्यादि । कामशास्त्रे ; वात्स्यायनादौ । शृङ्गारे ; अपिलापादयो दशावस्था उक्ताः स्त्रीपुरुषयोरन्योन्यालम्बनत्वाविशेषेऽपि प्रधानोपसर्जनभावकृतं वैषम्याह-भोक्तेत्यादि । शृङ्गारभङ्गकदिति । कान्तायाः पुरुषान्तरासक्तौ रसाभासो भवतीत्यर्थः । कान्तान्तरमभञ्जकमिति । पुरुषे स्वकान्तान्तरासक्तावपि रसाभासो न भवतीत्यर्थः । शृङ्गारस्य त्रैविध्यमाह-वाङ्नेपथ्येत्यादि । नेपथ्यस्वरूपमाह-रामादिव्यञ्जक इत्यादि ॥ -१४११-१४१५ ॥
इति शृङ्गारः (क०) अथ हास्यं लक्षयितुं तस्य विभावादीन् दर्शयतिवेषालंकारेत्यादि । विकारितेति । स्वगतानां वेषादीनां स्वभावात्
Scanned by Gitarth Ganga Research Institute