________________
४१४
संगीतरत्नाकरः तन्न नीचरतिर्यस्मानारीमात्रविभावजा ॥ १४०९ ॥ वियोगेऽपि तथा माल्याद्यभावेन कथं रतिः ।
आशाबन्धश्लथीभूतचिन्तादिव्यभिचारिकः ॥ १४१० ॥ विरहः करुणाद्भिन्नः प्रियनैराश्यकारितम् । कामशास्त्रे च शृङ्गारे दशावस्थः प्रकीर्तितः ॥ १४११ ॥
माल्यादिविभावानाम् ; उद्दीपनविभावानामसंभवाद्धेतो रत्यभावे सति तन्निष्ठो विप्रलम्भः कथं शृङ्गारो जायते । शृङ्गार एव न भवतीत्यर्थः । अतः कारणात् तदानीं च विषय इष्टविरहोद्भवः करुणः स्पष्टः स्यादित्यभेदप्रतिपादनम् । इदानीं संभोगप्रतिबन्धा विप्रलम्भस्य करुणाद्भेदं साधयतिमाल्याद्यसंभवादित्यादि । चेत् , यदि नीचे माल्याद्यसंभवाद्धेतोः संभोगसंभवेऽपि प्रतिपाद्यते । तन्न । तत्प्रतिपादयितुं न शक्यमित्यर्थः । यस्मात्कारणात् नीचरतिः नारीमात्रविभावजा माल्याद्यनपेक्ष्यैव संभोगप्रवर्तिता दृश्यत इत्यर्थः । वियोगेऽपीति । यथा संभोगे माल्याद्यभावेऽपि रतिरङ्गी कृता, तथा वियोगेऽपि माल्याद्यभावेऽपि रतिः कथं न कस्मानाङ्गी क्रियते । अवश्यमङ्गीकर्तव्येत्यर्थः । करुणविरहौ स्वरूपेणापि परस्परभिन्नावित्याह- आशावन्धेत्यादि । आशाबन्धश्लथीभूतचिन्तादिव्यभिचारिक इति । आशाया बन्धः प्रियसङ्गमो भविष्यतीत्येवंरूपः, तेन श्लथीभूताः चिन्तादयो व्यभिचारिणो यस्मिन्निति स तथोक्तः । एवंरूपो विरहः प्रियनैराश्यकारितात : प्रिय इष्टजने नैराश्यं निर्गता आशा यस्मात् स निराशः, तस्य भावस्तत्त्वम् । तेन कारितात् उत्पादितात् करुणाद्भिन्नः पृथग्भूतः ॥ १४०४-१४१०० ॥
(क०) अथ शृङ्गारे कविभिर्वर्णनीया दशावस्था दर्शयति
Scanned by Gitarth Ganga Research Institute