________________
सप्तमो नर्तनाध्यायः
४१३ भवन्त्यपि न सोद्भाव्या रत्युक्तर्षविरोधिनी । करुणे विप्रलम्भे च चिन्तादिव्यभिचारिणाम् ॥ १४०५ ॥ साधारण्यात्तयो दो नास्ति चेत्तदसांप्रतम् । शोको हि करुणे स्थायी विप्रलम्भे रतिर्मता ॥ १४०६ ॥ स्थायिभेदाद्विभागोऽतस्तयोरुत्तमपुरुषे । ननु नीचे तु माल्यादिविभावानामसंभवात् ।। १४०७ ।। रत्यभावे विप्रलम्भः शृङ्गारो जायते कथम् । अतः स्यात्करुणः स्पष्टस्तत्रेष्टविरहोद्भवः ॥ १४०८ ॥
माल्याद्यसंभवानीचे संभोगासंभवेऽपि चेत् । निद्राविनाशः । तेजोऽभावस्तम इतिवन्निद्राया अभावो विबोध इत्यर्थः । अतस्तामृते निद्रां विनापि संभोगे विबोधः कुत इति परिहारः । पुनः पूर्वपक्षी शङ्कते--रतिश्रमकृता निद्रा संभोगेऽप्यस्ति चेदिति । पुनः परिहरतिन तदिति । सा निद्रा भवन्त्यपि संभोगे रतिश्रमकृता विद्यमानापि नोद्भाव्या । तत्र हेतुमाह-रत्युत्कर्षविरोधिनीति । यतो रत्युत्कर्षविरोधो भवति, अतः कविभिर्निद्रा न वर्णनीयेत्यर्थः । इदानीं करुणविप्रलम्भयोरभेदं शङ्कते-करुण इत्यादि । तत्र हेतुमाह-चिन्तादिव्यभिचारिणांसाधारण्यादिति । तदूषयति-तदसांप्रतमिति । हि; यस्मात्कारणात् करुणे शोकः स्थायी विप्रलम्भे रतिर्मता स्थायित्वेन संमता । अतः कारणात् तयोः करुणविप्रलम्भयोः स्थायिभेदात् विभागः सिद्ध इत्यर्थः । इदानीं विषय विशेषे स्थायिभेदसंभवात् करुणविप्रलम्भयोविभागमङ्गीकृत्य विषयान्तरे स्थायिभेदाभावेन तत्र तयोरभेदं शङ्कतेउत्तमपूरुष इत्यादि । उत्तमपुरुषे कुलधनादिना संपन्ने करुणविप्रलम्भभेदाभावो न । तत्र तयोः विभागोऽस्त्वित्यर्थः। नीचे तु; कुलधनहीने तु,
Scanned by Gitarth Ganga Research Institute