________________
संगीतरत्नाकर:
नैकरूपे चिरास्वाद्यः शर्करावद्भवेदसौ ।। १४०२ । संभोगेऽपि न निद्रास्ति नन्वन्योन्याभिलाषिणोः । विबोधस्त्वस्त्यसौ कस्माद्विप्रलम्भैकगोचरः ।। १४०३ ॥ नैतन्निद्राविनाशो हि विबोधस्तामृते कुतः । रतिश्रमकृता निद्रा संभोगेऽप्यस्ति चेन्न तत् || १४०४ ॥ शृङ्गारस्तु वाङनेपथ्याङ्गचेष्टाभिस्त्रिविधः । रमादिव्यञ्जकनटवेषो नैपथ्यमित्युज्यते ॥ - १४००-१४१५॥
४१२
इति शृङ्गारः
(क०) एवंरूपे तस्मिन् दोषो नास्तीति सदृष्टान्तमाह — नैकरूप इति । असौ रस एकरूपे सति शर्करावत् चिरास्वाद्यो न भवेत् । यथा शर्करा अतिमधुरतया आम्रादिभिरनन्तरिता सती चिरमास्वाद्या न भवति । एवं सुखात्मको हि संभोगो निर्वेदादिभिरनन्तरितश्चेत्सामाजिकैरास्वद्यो न भवति । एकरूपत्वे शीघ्रमेव तृप्तिजननात्पर्यवस्येत् । निर्वेदादिभिरनन्तरितत्वादनेकरूपत्वेऽप्याम्लाद्यन्तशर्करावत् चिरास्वाद्यो भवतीत्यर्थः । पूर्वं संभोगशृङ्गारे, 'आलस्यौम्य जुगुप्साभ्योऽन्येऽत्र स्युर्व्यभिचारिणः ' इति वचनात् निद्राविबोधौ भवत इत्यर्थादुक्तम् । तौ संभोगे न संभवत इत्याक्षिपति - नन्विति । तत्र हेतुकथनम् — अन्योन्याभिलाषिणोरिति । यूनोः परस्परं निरन्तराभिलाषित्वादित्यर्थः । संभोगेऽपीत्यत्र अपिशब्दो भिन्नक्रमः । संभोगे निद्रापि नास्तीति योजनीयम् । निद्रापूर्वकत्वे नियतस्वरूपलाभो विबोधः सुतरां नास्तीत्यपिशब्दार्थः । तमेवार्थे विस्पष्टमाह - विबोधस्तु कस्मादस्तीति । अतः कारणादसौ विबोधो विप्रलम्भैकगोचरो वक्तव्य इत्याक्षेपार्थः ॥ -१४०२, १४०३ ॥
(क०) परिहरति---नैतदिति । हि यस्मात्कारणात् विबोधो नाम Scanned by Gitarth Ganga Research Institute