________________
सप्तमौ नर्तनाध्यायः
४११ ननु दुःखात्मकः कस्माद्विपलम्भो रसो मतः ॥ १४०० ॥ मैवं रत्यनुसंधानं विप्रलम्भेऽपि दृश्यते । विप्रलम्भोद्भवा शङ्का संभोगे दुस्त्यजा ध्रुवम् ॥ १४०१॥
इतरेतरचित्रत्वाद्रसत्वं सुलभं तयोः । मरणं च साक्षान्न प्रदर्शनीयम् । भाविनी दशां तत्र तत्र दर्शयेत् ॥ -१३९६१३९९-॥
(क०) विप्रलम्भस्य रसत्वमाक्षिपति-न विति । दुःखात्मक इति हेतुगर्भितं विशेषणम् । दुःखात्मकत्वात् विप्रलम्भः कथं रस इत्याक्षेपः । परिहरति-मैवमिति । विप्रलम्भेऽपि रत्यनुसंधानं दृश्यत इत्यत्रापिशब्देन संभोगे रत्यनुसंधानं सिद्धमेवेत्युक्तं भवति । एवमनभ्युभगच्छन्तं प्रत्याह
-बिप्रलम्भोद्भवा शङ्का संभोगेऽपि ध्रुवं दुस्त्यजेति । अयमर्थःसंभोगसमयेऽपि भाविविरहभीरुत्वस्यावश्यंभावात्तस्यापि दुःखात्मकत्वसंभवात्संभोगसंमिन्नत्वाच्चित्रत्वम् । विप्रलम्भस्य दुःखात्मकत्वेऽपि भाविसमागमाशोत्पन्नसुखसंमिन्नत्वाच्चित्रत्वम् । अतः कारणत्तयोः संभोगविप्रलम्भयो रसत्वमास्वाद्यमानत्वं सुलभम् । अनेकरूपतया घोषयितुं शक्यमित्यर्थः ।। ॥ -१४००, १४०१-॥
___ (सु०) अत्र विप्रलम्भे रसत्वमाक्षिपति-नन्विति । ननु दुःखात्मको विप्रलम्भः कथं तस्य शृङ्गारता इति चेन्न, विप्रलम्भे रत्यनुसंधानस्य दृष्टत्वात् रत्यनालिङ्गितस्यैव करुणत्वात् विप्रलम्भस्य शृङ्गारता युज्यत एव । कामसूत्रे च शृङ्गारस्य दशावस्था: प्रतिपादिताः । ता यथा-अभिलाष: चिन्ता, अनुस्मृतिः, गुणकीर्तनम् , उद्वेगः, विलासः, उन्मादः, जाड्यम् , व्याधिः, मरणमिति । अत्र भोक्तैव प्रधानम् , भोग्या तूपसर्जनीभूता । अतः स्त्रिया: नरान्तरासक्तिः रसभञ्जिका । पुंसस्तु स्वातन्त्र्यात् स्त्र्यन्तरासक्तिन रसभञ्जिका ।
Scanned by Gitarth Ganga Research Institute