________________
४०८
संगीतरत्नाकरः भावानां यानि कार्याणि नाट्यन्ते कुशलैनटैः ।। १३९० ॥ अनुभावा हेतवस्ते स्वहेत्वनुभवे यतः। ते भावानाभिमुख्येन नयन्ति गमयन्ति हि ॥ १३९१ ॥ अतोऽभिनयशब्देनाप्युच्यन्ते कृत्रिमा नटैः।
(सु०) शृङ्गारस्य विभावान् लक्षयति-कान्ताविति । कान्ता च कान्तश्चेति एकशेषसमासः। अत्र कान्तयोः स्त्रीपुंसयोः आलम्बनविभावत्वं, रत्यादीनामितरेषामुद्दीपनविभावत्वमिति ॥ १३८७-१३८९ ॥
(क०) अनुभावानां सामान्यलक्षणमाह-भावानामित्यादि । भावानां स्थायिनां संचारिणां च यानि कार्याणि कटाक्षभुजाक्षेपप्रभृतीनि कुशलैः नटैः नाट्यन्ते अनुक्रियन्ते, ते यतः कारणात् स्वहेत्वनुभवे स्वेषां हेतवः स्थायिनः संचारिणश्च तेषामनुभवोऽत्रानुमानम् । तत्र हेतवो लिङ्गानि । अतस्तेऽनुभावा इति सिंहावलोकनन्यायेन योजनीयम् । एतेन अनुभावयन्तीत्यनुभावा इति व्युत्पत्तिर्दर्शिता भवति । तेष्वभिनयशब्दप्रवृत्तौ निमित्तं दर्शयति-ते भावानित्यादि । हि यस्मात्कारणात् तेऽनुभावाः भावान् पदार्थान् आभिमुख्येन । नयन्तीत्यस्य व्याख्यानं गमयन्तीति ; ज्ञापयन्तीत्यर्थः । अतः नटैः कृत्रिमा अनुकाररूपेण नट आरोपिता वर्तमानाः सन्तोऽभिनयशब्देनाप्युच्यन्ते । अनुकार्यनिष्ठत्वेनानुभावव्यपदेशः । कटाक्षादय एवानुकर्तृनिष्ठत्वेनाभिनया उच्यन्त इत्यर्थः।-१३९०, १३९१-।।
(सु०) अनुभावानां सामान्यलक्षणं लक्षयति-भावानामिति । भावानां स्थायिनां संचारिणां च यानि कार्याणि कटाक्षादीनि, कुशलैः नटैः नाव्यन्ते अनुक्रियन्ते, ते अनुभावाः । ते यत: स्वहेत्वनुभवे हेतवः स्युः ।। -१३९०, १३९१-॥
Scanned by Gitarth Ganga Research Institute