________________
४०९
सप्तमो नर्तनाध्यायः कान्ता दृष्टिः कटाक्षाख्यं तारकाकर्म शर्मकृत् ।। १३९२ ।। चतुरे च भ्रुवौ चारुगोचरा मधुरा गिरः। रोमाञ्चमुखरागादिरचितः सात्त्विकोत्करः ॥ १३९३ ॥ अनुभावा भवन्त्येते शृङ्गाररसपोषिणः । आलस्यौग्यजुगुप्साभ्योऽन्येऽत्र स्युर्व्यभिचारिणः ॥१३९४ ॥ आलस्यादित्रयं वयं स्वविभावैकगोचरम् । एष संभोगशृङ्गारगतः परिकरो मतः ॥ १३९५ ।। विप्रलम्भे नानुभावः कान्तदृष्टयादिरिष्यते ।
(क०) तत्र शृङ्गारानुभावानाह-कान्तादृष्टिरित्यादि । रोमाञ्चमुखरागादिरचित इत्यादि । तत्र मुखरागशब्देन वैवर्ण्यमुच्यते । आदिशब्देन स्वरभेदादयो ग्राह्याः; रोमाश्चमुखरागादिरूपेण रचित इत्यर्थः । लौकिकरसवत्स्वयमेव न जातः । अपि तु नटेन स्वस्मिन्नारोपित इत्यर्थः । सात्विकोत्कर इति । स्तम्भादयोऽष्टावपीत्यर्थः । स्तम्भादीनामनुभावत्वेऽपि सात्त्विकव्यपदेशो मन आरब्धत्वादिति मन्तव्यम् । आलस्येत्यादि । अत्र: संभोगशृङ्गारे । आलस्यौग्यजुगुप्साभ्योऽन्य इति । निर्वेदादय एकत्रिंशदपीत्यर्थः । जुगुप्साया बीभत्सशान्तौ प्रति स्थायित्वेऽपि रसान्तरं प्रति संचारित्वात् तेषु परिगणनमविरुद्धम् । एवमेकत्र रसे स्थायिनोऽपि रत्यादेरन्यत्र संचारित्वं द्रष्टव्यम् । तथा आलस्यादित्रयमपि स्वविभावैकगोचरमेव संभोगशृङ्गारे वर्ण्य मित्याह-आलस्येत्यादि स्वविभावैकगोचरमिति । केवलैरेव वृत्त्यादिभिः वक्ष्यमाणैः स्वविभावैरुत्पन्नमित्यर्थः । एतेन विभावान्तरगोचरं चेद् ग्राह्यमित्युक्तं भवति । विप्रलम्भ इति । विरहशृङ्गारे कान्तादृष्टयादिरनुभावो नेष्यते । तस्य दुःखात्मकत्वादिति भावः ॥ ॥ -१३९२-१३९५. ॥
Scanned by Gitarth Ganga Research Institute