________________
सप्तमो नर्तनाध्यायः लोके स्थाय्यादिभावानां दृष्टा ये जन्महेतवः ।। १३८५ ॥ उपनीताः कविवरैर्नटैः साक्षात्कृता इव । रसान्प्रसुन्वते ते म्युर्विभावास्तद्विभावनात् ॥ १३८६ ।। कान्तौ तीव्रस्मराक्रान्तौ द्वतीसख्यादयो जनाः।। तत्तद्योग्योऽप्यलंकारः किरीटकटकादिकः ॥ १३८७ ॥ समयोऽपि वसन्तादिविषयाश्चन्दनादयः । गीतादयश्च देशोऽपि रम्यह→वनादिकः ॥ १३८८ ॥ कान्तानुकरणं हंसयुग्मचित्रादिदर्शनम् । जलकेलीत्येवमाद्याः श्रुता यद्वा विलोकिताः॥ १३८९ ॥ विभावत्वेन विख्याता रसे शृङ्गारनामनि ।
(सु०) रतिं लक्षयति-स्त्रीपुंसयोरिति । उत्तमयोः स्त्रीपुंसयोः पूर्णसुखोदया ; प्रारम्भात्फलपर्यन्तव्यापिनीस्मरसंभृता, संविदोः ऐक्यसंपत्त्या यत्र क्रीडा, सा स्थायिनी रतिरित्युच्यते ॥ १३८४, १३८४-॥
(क) विभावानां सामान्यलक्षणमाह-लोक इत्यादि । स्थाय्यादीत्यत्र आदिशब्देन संचारिणो गृह्यन्ते । तद्विभावनादिति । तेषां रसानां विभावनादुत्पादनात् । एतेन विभावशब्दस्य व्युत्पत्तिर्दर्शिता ॥ ॥ -१३८५, १३८६ ॥
(सु०) विभावानां सामान्यलक्षणं लक्षयति-लोक इति । अत्रादिशब्देन संचारिणो गृह्यन्ते । तेषाम् ; रसानाम् ॥ -१३८५, १३८६ ॥
(क०) तत्र शृङ्गारस्य विभावानाह-कान्तावित्यादि । कान्ता च कान्तश्च कान्तौ । “पुमांस्त्रिया" इत्येकशेषः । अत्र तयोरालम्बनविभावत्वं रत्यादीनामितरेषामुद्दीपनविभावत्वम् ॥ १३८७-१३८९ ॥
Scanned by Gitarth Ganga Research Institute