________________
४०६
संगीतरत्नाकरः आवेशातिशयं नीतश्चित्रितो व्यभिचारिभिः । हर्षचिन्तादिभिः प्रोक्तः शृङ्गारः सूरिशाङ्गिणा ।। १३८२ ॥ संभोगविप्रलम्भौ वावस्थे द्वे तस्य कीर्तिते । कान्तासंयोगविरही लक्षणे च तयोः क्रमात् ।। १३८३ ।। स्त्रीपुंसयोरुत्तमयोऍनोः पूर्णसुखोदया । प्रारम्भात्फलपर्यन्तव्यापिनी स्मरसंभृता ।। १३८४ ॥
संविदोरैक्यसंपत्या क्रीडात्र स्थायिनी रतिः । रसनीयतामास्वायमानतां नीतः प्रापितः । नटेन अनुका प्रदर्शितैः कान्तादृष्टयायैः अनुभावैः आवेशातिशयं सामाजिकमनःस्वभिमानातिशय नीतः प्रापितः । हर्षचिन्ताद्यैः व्याभिचारिभिः चित्रितः शवलितः रतिस्थायिभावः ; रत्याख्यः स्थायिभावो यस्य सः । मरिशाङ्गिणा शृङ्गारः प्रोक्त इति संबन्धः। संभोगेत्यादि । तयोश्च कान्तासंयोगविरहौ क्रमाल्लक्षणे इति । कान्तासंयोगः संभोगशृङ्गारस्य लक्षणम् । कान्ताविरहो विप्रलम्भशृङ्गरास्य लक्षणमिति क्रमः ।। -१३७९-१३८३ ॥
(सु०) अथ शृङ्गारं लक्षयति-विभावेरिति । कविना निबद्धैः, नटेन अभिनीतैः, विभावाद्यैः सदस्यैः रसनीयता नीतः रतिस्थायिभावः, नटेन प्रदर्शितैः कान्तादृष्टयाद्यैः अनुभावै: आवेशातिशयं सदस्यानां मनःस्वभिमानातिशयं नीतः, हर्षचिन्तादिभिः चित्रितः ; रत्याख्यः स्थायिभावो शृङ्गारः । स द्विविध: ; संभोगशृङ्गारः, कान्ताविरहस्तु विप्रलम्भ इति ॥-१३७९-१३८३ ॥
.. (क०) रतिं लक्षयति-स्त्रीपुंसयोरित्यादि । संविदोरैक्थसंपत्येति । स्त्रीपुंससंबन्धिन्योः बुद्धयोरत्यन्तमेकरूपतया क्रीडा केलिः । अत्र स्थायिनी रतिरिति । अन्यत्र देवादिविषया संचारिणी रतिरित्यर्थः ॥ १३८४, १३८४- ॥
Scanned by Gitarth Ganga Research Institute