________________
४०२
संगीतरत्नाकरः उत्साहमाहुरन्येऽन्ये शमं सर्वान्परे जगुः । उद्दिश्य स्थायिनः प्राप्ते समये व्यभिचारिणाम् ॥ १३६४ ॥ अमङ्गलमपि ब्रूते पूर्व निर्वेदमेव यत् ।। मुनिर्मेनेऽस्य तन्नूनं स्थायिताव्यभिचारिते ॥ १३६५ ॥ पूर्वापरान्वयो यस्य मध्यस्थस्यानुषङ्गतः । स्थायी स्याद्विषयेष्वेव तत्त्वज्ञानोद्भवो यदि ॥ १३६६ ॥ इष्टानिष्टवियोगाप्तिकृतास्तु व्यभिचार्यसौ ।
बोधजितस्य भावविशेषस्यानुस्यूतत्वात् द्रष्टव्यम् । जुगुप्सायास्तुस्थायित्वमनुभूयमानविषयहेयत्वदर्शनानुम्यूत्या द्रष्टव्यम् । उत्साहस्य तु स्थायित्वं साधनचतुष्टयसंपत्त्यर्थं मानसप्रयत्नानुस्यूत्या द्रष्टव्यम् । शमस्यापि स्थायित्वं सर्वेन्द्रियव्यापारोपरतेरभ्यासाद्दष्टव्यम् । एवं समवेतानामपि निर्वेदादीनां शान्तं प्रति स्थायित्वमनुसंधेयम् । उद्दिश्येत्यादि । स्थायिनो रत्यादिभावानुद्दिश्य व्याभिचारिणां निदादीनां समयेऽवसरे । प्राप्त इति । स्थायिप्रतिद्वन्द्वित्वेन व्यभिचारिणां बुद्धयपारूढतया संगतत्वादिति भावः । अमङ्गलमित्यादि । यत् । यस्मात् कारणात् मुनिः भरतर्षिः अमङ्गलमपि निर्वेदमेव पूर्व ब्रूते, तत्तस्मात् कारणात् अस्य निर्वेदस्य स्थायिताव्यभिचारिता मेने । नूनमिति मुनेरभिप्राय उत्प्रेक्ष्यते । एवं सति मध्यस्थस्य निर्वेदस्यानुषङ्गतो देहलीप्रदीपन्यायेनोभयत्र संबन्धात् पूर्वापरान्वयो भवति । हि प्रसिद्धौ । पूर्वैः स्थायिभिः परैः व्यभिचारिभिश्चान्वययोजना ॥ ।। -१३६२-१३६६- ॥
(क०) स्थायिसंचारितयोविभागमाह-स्थायी स्यादित्यादि । एष निर्वेदो यदि विषयेषु तत्त्वज्ञानोद्भवो भवेत्, तदा स्थायी स्यात् ।
Scanned by Gitarth Ganga Research Institute