________________
सप्तमो नर्तनाध्यायः
४०३ निर्वेदग्लानिशङ्कौय्यदैन्यासूयामदश्रमाः ॥ १३६७ ॥ चिन्ता धृतिः स्मृतिौडामोहालस्यानि चापलम् । हर्षामर्षविषादाश्चापस्मारो जडता तथा ॥ १३६८ ॥ वितर्कसुप्तमौत्सुक्यमवहित्थं तथा मतिः । विबोधो व्याधिरुन्मादो गर्वावेगौ मृतिस्तथा ।। १३६९ ।। त्रासो निद्रा त्रयस्त्रिंशदिति स्तुर्व्यभिचारिणः । स्तम्भः स्वेदोऽथ रोमाश्चः स्वरभेदोऽथ वेपथुः ॥ १३७० ॥
वैवर्ण्यमश्रु प्रलयोऽष्टौ भावाः सात्त्विका इति । असौ: निर्वेदः, इटानिष्टवियोगाप्तिकतास्तु : इष्टवियोगकृतोऽनिष्टावाप्तिकृतो वा भवति चेत्तदा व्याभचारी स्यात् ॥ -१३६७ ।।
(क०) व्यभिचारिण उद्दिशति-निर्वेद इत्यादि ॥ - १३६७१३६९- ॥
(सु०) व्यभिचारिणो लक्षयति-निर्वेदेति । निर्वेदः, ग्लानि:, शङ्का, औग्र्यम् , दैन्यम् , असूया, मदः, श्रमः, चिन्ता, धृतिः, स्मृतिः, ब्रीडा, मोहः, आलस्यम् , चावलम् , हर्षः, अमर्षः, विषादः, अपस्मारः, जडता, वितर्कः, सुप्तिः, औत्सुक्यम् , अवहित्यम् , मतिः, विबोध:, व्याधि', उन्मादः, गर्वः, आवेगः, मृतिः, त्रासः, निद्रेति त्रयस्त्रिंशद्वयभिचारिभावाः ।। -१३६७-१३६९- ॥
(क०) सात्किानुद्दिशति-स्तम्भ इत्यादि । -१३७०,१३७० - ।। ___ (सु०) अथ सात्त्विकभावान् लक्षयति-स्तम्भ इति । स्तम्भः, स्वेदः, रोमाञ्चः, स्वरभेदः, वेपथुः, वैवर्ण्यम् , अश्रु, प्रलय इत्यष्टौ सात्विकभावाः ॥ -१३७०, १३७०- ॥
Scanned by Gitarth Ganga Research Institute