________________
सप्तमो नर्तनाध्यायः
तदचोद्यं यतः किंचिन्न रसं स्वदते नटः ।। १३६० ॥ सामाजिकास्तु लिहते रसान् पात्रं नटो मतः । ते शुद्धहृदयाः शान्तं स्वविभावविभावितम् ।। १३६१ ॥ एकाग्रचेतसः सन्तोऽनुभवन्तीति युज्यते । रतिहासशुचः क्रोधोत्साहौ भयजुगुप्सने ।। १३६२ ।। विस्मयचाथ निर्वेद: स्थायिभावा नवेत्यमी । जुगुप्सां स्थायिभावं तु शान्ते केचिद्वभाषिरे ।। १३६३ ।।
४०१
(क० ) तदूदूषयति - तदचोद्यमिति । यतः कारणात् नटो रसं किंचिदपि न स्वदते । नटस्य स्वकार्याभिनय विहितत्वेनाल्पोऽपि रसस्यास्वादः तस्य नास्तीत्यर्थः । सामाजिकास्त्विति । तेषां कार्यान्तरानुसंधानाभावत्ते तूतरूपान् रसान् स्वदन्ते । अतः कारणात् नटः पात्रं रसस्याधारमात्रम् । अयमर्थ:: - यथा लोके पानकादिरसस्य चषकादिकमाधारत्वेन पात्रं, न तु तदास्वादज्ञातृत्वेन ।. एवं नटोऽपि रसास्वदको न भवति । अतः शान्तरसस्य न नाट्यरसत्वनिषेध इति । त इत्यादि । ते; सामाजिकाः, शुद्धहृदयाः; कार्यान्तरेव्वनासक्तचित्ता इत्यर्थः । एकाग्रचेतसः; नाट्यदर्शन एवावहितमनस इत्यर्थः । एवंविधाः सन्तः स्वविभावविभावितम् ; स्वविभावा वक्ष्यमाणाः संसारभीरुतादयः, तैर्विभावितं निष्पादितं शान्तमनुभवन्ति । इति युज्यत इति । शृङ्गारादिवत् सामाजिकास्वद्यमानत्वात् शान्तस्यापि नाट्यरसत्वमुपपन्नमित्यर्थः ॥ - १३६०, १३६१- ॥
(क०) अथ रसोपादानभूतान् स्थायिभावानुद्दिशति - रतिहासशुच इत्यादि । शान्तस्य स्थायिभावविकल्पं मतभेदेन दर्शयति — जुगुप्सामि - त्यादि । सर्वान्परे विदुरिति । सर्वान् निर्वेदजुगुप्सोत्साहशमान् । शान्ते निर्वेदस्य तावत्स्थायित्वं मयातीतेषु जन्मान्तरेषु मोक्षेद्योगो न कृत इति तत्त्व
51
Scanned by Gitarth Ganga Research Institute