________________
संगीतरत्नाकरः दध्यादिव्यञ्जनैश्चैव हरिद्रादिभिरौषधैः ॥ १३५६ ॥ मधुरादिरसोपेतैर्यद्वद् द्रव्यैर्मुडादिभिः । युक्तैः पाकविशेषेण पाडवाख्यापरो रसः ॥ १३५७ ।। उत्पाद्यते विभावाद्यैः प्रयोगेण तथा रसः । शृङ्गारहास्यौ करुणो रौद्रो वीरो भयानकः ॥ १३५८ ॥ बीभत्सश्चाद्भुतः शान्तो नवधेति रसो मतः । शान्तस्य शमसाध्यत्वानटे च तदसंभवात् ॥१३५९ ॥ अष्टावेव रसा नाटयेष्विति केचिदचूचुदन् ।
(क०) " विभानुभावव्यभिचारिसंयोगाद्रसनिष्पत्तिः" इत्यस्य भरतसूत्रस्यार्थमनुसंधाय लोकसिद्धभोजनरसदृष्टान्तपूर्वकमाह-दध्यादिव्यञ्जनैरित्यादिना । अत्र विभावा दध्यादिस्थानीयाः; संचारिणः चिञ्चाहरिद्राद्यौषधस्थानीयाः; अनुभावाः गुडादिद्रव्यस्थानीया इति मन्तव्याः । पाकविशेषस्थानीयोऽपरोऽन्य उत्कृष्टश्च । मधुरादिभ्यः षड्भ्योऽन्यः तेषां संसर्गरूपत्वात् । अत एव तेभ्य उत्कृष्टश्च । पाडवाख्य इति । षड्भिमधुरादिभिः निर्वृत्तः षाडवः । षाडव इत्याख्या यस्य स तथोक्तः । अत्रापि रत्यादिभ्योऽन्य उत्कृष्टश्च शृङ्गारादिको रसो द्रष्टव्यः ।। १३५६-१३५७ ॥
(क०) एवं सामान्येन रसमभिधाय तद्विशेषानुद्दिशति-शृङ्गारहास्यावित्यदि । अत्र कैश्चित् शान्तव्यतिरिक्ताः शृङ्गारादयोऽष्टावेव नाट्यरसत्वेनोक्ताः । शान्तेन सह कथं नवधेत्युद्देश उपपन्न इति चोचं परिजिहीर्षुरादौ तन्मतमनुभाषते-शान्तस्येत्यदि । शमो नाम सर्वेन्द्रियव्यापारोपरमात्मकः शान्तस्य स्थायी । नटे च तदसंभवादिति । नट ईषञ्चलनयुक्ते तु तस्य शमस्य, आस्वाद्यमानत्वासंभवादित्यर्थः । अनेनाष्टावेवेत्यत्रोपपत्तिर्दर्शिता भवति । -१३५८, १३५९- ॥
Scanned by Gitarth Ganga Research Institute