________________
सप्तमो नर्तनाध्यायः
अतो निरन्तरायत्वात्परां विश्रान्तिमाश्रिता । प्रतिभानुभवस्मृत्याद्यन्यबोधविलक्षणा ।। १३५४ ।। ब्रह्मसंविद्विसदृशी नानारत्यादिसङ्गमात् । सुखरूपा स्वसंवेद्या संविदास्वादनाभिधा ।। १३५५ ॥ रसः स्यादथवा स्थायी रसस्तद्गोचरीभवन् ।
३९९
रूपम् । रतिः शृङ्गाररसस्य स्थायिभावो वक्ष्यते । हासो हास्यरसस्य ; आदिशब्देन करुणस्य शोक इत्यादिकं द्रष्टव्यम् । एवंविधं स्थायिरूपं प्रगृह्णती स्वीकुर्वती । अत इति । उक्तकारणात्; निरन्तरायत्वात् ; विनरहितत्वात् पराम् ; उत्कृष्टां विश्रान्ति विस्रम्भमाश्रिता । प्रतिभेत्यादि । प्रतिभा नाम सूक्ष्मसूक्ष्मार्थग्राहकं भविष्यद्वस्तुविषयकं ज्ञानम् । अनुभवो नाम वर्तमानवस्तुविषयं ज्ञानम्; स्मृतिर्नामातीतवस्तुविषयं ज्ञानम् ; आदिशब्देन संशयविपर्ययौ गृह्येते । प्रतिभादिष्वन्योऽन्यतमो बोधो ज्ञानं तद्विलक्षणा । प्रतिभादिबोधेष्वन्यतमस्यापि न सदृशीत्यर्थः । प्रतिभादिवैलक्षण्यं ब्रह्मसंविदोऽपि विद्यत इति तया सादृश्यमाशङ्क्य तस्या अपि वैलक्षण्यं सहेतुकं दर्शयति — ब्रह्मसंविद्विसदृशीति । नानारत्या तिसङ्गमाद्बहुधाभूतरत्यादिस्थायिभावसंबन्घाद्धेतोः ब्रह्मसंविदो वैसासादृश्यमुक्त्वा, अंशान्तरे सच्चिदानन्दरूपैः तत्सादृश्यमाप्याह - सुखरूपेत्यादि । सुखरूपेत्यनेन आनन्दरूपता, स्वसंवेद्येत्यनेन चिद्रूपता, आस्वादनाभिघेत्यनेन सरूपता च दर्शितेत्यवगन्तव्यम् । एवंविधा संविद्रसः स्यादित्यन्वयः । कैश्चित, “स्थायी भावो रसः स्मृतः इत्युक्तत्वात् तन्मतमनुस्मृत्याह – अथवेति । तद्बोचरी भवन्; तस्या उक्तरूपाया: संविदो गोचरीभवन् विषयत्वेन प्रतीयमानः स्थायी रत्यादिको भाव एव रसः स्यात् ।। १३५२ - १३५५- ॥
19
-
Scanned by Gitarth Ganga Research Institute