SearchBrowseAboutContactDonate
Page Preview
Page 440
Loading...
Download File
Download File
Page Text
________________ ३९८ संगीतरत्नाकरः विभावैरनुभावश्च नटस्थैर्व्यभिचारिभिः । जनितात्मपरामित्रमित्राद्याश्रयतां विना ।। १३५२ ।। अवस्थादेशकालादिभेदसंभेदवर्जितम् । केवलं रतिहासादिस्थायिरूपं प्रगृह्णती ॥ १२५३ ॥ बीभत्सः, अद्भुतः, शान्तश्चेति । शान्तस्य शमसाध्यत्वात् तस्य च नटेऽसंभवात् अष्टावेव-रस इति केचिदाहुः । तन मनोहरम् । न हि नटस्तावत् कंचन रसं स्वदते; परं तु सभास्ताराः । तथाच सति शुद्धहृदयाः सभ्याः स्वविभावविभावितं शान्तरसमनुभवतीति संजाघटत एव । स्थाय्यपि नवविध:-रतिः, हास:, शोकः, क्रोधः, उत्साहः, भयम् , जुगुप्सा, विस्मयः, निर्वेद इति ॥ १३५१-१३६१- ॥. (क०) तत्र सामान्यलक्षणमाह--विभावैरित्यादि । विभावा नाम लोके स्थाय्यादिभावानां, 'दृष्टा ये जन्महेतवः' इत्यादिना वक्ष्यमाणलक्षणाः। अनुभावा नाम, ‘भावानां यानि कार्याणि ' इत्यादिना वक्ष्यमाणलक्षणाः । व्यभिचारिणोऽपि, 'स्तोकैर्विभावैरुत्पन्नाः' इत्यादिना वक्ष्यमाणलक्षणाः । नटस्थैरिति विभावादीनां विशेषणम् । तेन लौकिकरसो व्यावय॑ते । जनितेति। उक्तैर्विभावादिभिः जनिता सामाजिकेषूत्पादिता; आत्मा अहमिति प्रत्ययविषयः ; परः अन्यः, अन्यस्मिन्नप्ययममित्र इदं मित्रमिति, आदिशब्देनायमुदासीन इत्युदासीनो गृह्यते । एवमात्मादिराश्रयो विषयो यस्याः सा आत्मपरामित्रमित्राद्याश्रया, तस्या भावस्ततेति वक्ष्यमाणायाः संविदो धर्मः। तां विना । अवस्थेत्यादि । अवस्थाभेदा जाग्रत्स्वमसुषुप्तयः; देशभेदाः पुरमामादयः; कालभेदा अहोरात्रादयः; आदिशब्देन ब्राह्मणादयो वर्णभेदा गृहस्थत्वादय आश्रमभेदाः पाचकपाठकादयोऽन्येऽपि गृह्यन्ते । है संभेदः संपर्कः । तेन वर्जितम् । अत एव केवलं रतिहासादिस्थायि Scanned by Gitarth Ganga Research Institute
SR No.034230
Book TitleSangit Ratnakar Part 04 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1953
Total Pages642
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size277 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy