________________
सप्तमो नर्तनाध्यायः
अथ नवरसलक्षणम् -
रसप्रधानमिच्छन्ति तौर्यत्रिकमिदं विदः । तत्सामान्यविशेषाभ्यामधुनाभिदधे रसम् ॥ १३५१॥
उपविशेयुः। ततः परं परितः परिवारा उपविशेयुः । सदसि दक्षाः वेत्रधारिणः, शस्त्रपाणयः, अङ्गरक्षकाश्च सर्वत: तिष्ठेयुः । एवं सभां संनिवेश्य नेता संगीतं पश्येत् ॥ -१३४०-१३५० ॥
इति सभासंनिवेशः। अथ नवरसलक्षणम्
(क०) एवं संगीतस्वरूपनिरूपणानन्तरं रसनिरूपणसंगतिं दर्शयन् रसप्रकरणमारभते-रसप्रधानमित्यादि । विदः; विद्वांसः इदम् । तौर्यत्रयं संनिहितपूर्वकालमेवोक्तलक्षणत्वात् बुद्धिस्थितस्य तूर्यत्रयस्येदमा प्रत्यक्षविषयेण निर्देश उपपन्न एव । रसमधानमिच्छन्तीति । रसो नाम विभावैरित्यादिना वक्ष्यमाणलक्षणो धीविशेष इच्छाविशेषो वा, स प्रधानं यस्य स तत्तथोक्तम् । तौर्यत्रिकस्य रसाविर्भावसाधनत्वेनाङ्गत्वम् । रसस्य तत्साधनत्वेनाङ्गित्वमित्यर्थः । यत एवं तत्तस्मात्कारणात् रसं तत्सामान्यविशेषाभ्यामभिदध इति । रसशब्दाभिधेयस्य स्वरूपनिरूपणं सामान्येनाभिधानं शृङ्गारादिशब्दानां स्वरूपनिरूपणं विशेषाभिधानम् ॥ १३५१ ॥
(सु०) अथ रसप्रकरणमारभते-रसप्रधानमिति । विदः; विद्वांसः, इदं तौर्यत्रिकं रसप्रधानमिच्छन्ति । तस्मात् सामान्यविशेषाभ्यामधुना रसस्य लक्षणमभिदध इत्यन्वयः । अत्र रसस्य स्वरूपनिरूपणं सामान्येन ; शृङ्गारादीनां तु विशेषेणेत्यवगन्तव्यम् । तत्र रसस्य सामान्यलक्षणमाह-विभावैरिति । नटस्थितैः विभावानुभावव्यभिचारिसात्त्विकैः स्वादुतया · नीयमानः स्थायी रस इत्युच्यते । स नवविधः-शृङ्गारः, हास्यः, करुणः, रौद्रः, वीरः, भयानकः,
Scanned by Gitarth Ganga Research Institute