________________
३९६
संगीतरत्नाकरः चारुचामरधारिण्यो रूपयौवनसंभृताः ॥ १३४६ ॥ स्वकङ्कणझणत्कारनिर्वाणजनमानसाः । आसीना वामभागे स्युरने वाग्गेयकारकाः॥ १३४७॥ कथका बन्दिनश्चात्र विद्यावन्तः प्रियंवदाः । प्रशंसाकुशलाश्चान्ये चतुराः सर्वमातुषु ॥ १३४८ ॥ ततः परं च परितः परिवारोपवेशनम् । अधिष्ठितं सदः कार्य दक्षैत्रधरैर्नरैः ।। १३४९ ॥ अङ्गरक्षास्तु तिष्ठेयुः सर्वतः शस्त्रपाणयः । संनिवेश्म सभामेवं नेता संगीतमीक्षते ॥ १३५० ॥
इति सभासंनिवेशः ।। यथासंस्थानं स्थापयित्वा, नेता ; नायक उक्तगुणः सभापतिः । संगीतम् : आनन्दातिशयोत्पादसाधनं तूर्यत्रयं गीतवाद्यनृत्यानां मेलनमित्यर्थः । ईक्षते; अवहितमना भूत्वा विलोकयेदिति नियमोऽनुसंधेयः ।। -१३४०-१३५०॥
इति सभासंनिवेशः। (सु०) सभासंनिवेशं लक्षयति-विचित्रा इति । रत्नस्तम्भालंकृतायां, पुष्पशोभितायां, नानाविधविभावविलसितायां नृत्याशालायां सिंहासने सभापतिस्तिष्ठेत् । तद्वामे अन्तःपुराणि ; तद्दक्षिणे प्रधानाः; प्रधानपृष्ठभागे कोशाद्यधिपाः; तत्संनिधौ लोकवेदसमर्था विद्वांसः ; रसिकाः कवयः ; तन्मध्ये ज्योतिर्विदः वैद्याश्च ; तदक्षिणे मन्त्रिणः, तत्रैव सेनापतयश्च तिष्ठेयुः । अन्त:पुरस्य परितो विलासिन्यः ; सभापतेः परितो विलासिनश्च उपविशेयुः । राज्ञः पृष्ठभागे चारुचामरधारिण्यः, रूपयौवनशालिन्यः स्वङ्कणझणत्कारतोषितमनस: उपविशेयुः । राज्ञो वामभागे वाग्गेयकारकाः, कथकाः, बन्दिनः, विद्यावन्तः, प्रियंवदाः, प्रशंसाकुशलाः, सर्वमातुषु चतुरश्च, अन्येऽपि
Scanned by Gitarth Ganga Research Institute