SearchBrowseAboutContactDonate
Page Preview
Page 437
Loading...
Download File
Download File
Page Text
________________ सप्तमो नर्तनाध्यायः ३९५ विचित्रा नृत्यशाला स्यात्पुष्पपकरशोभिता ।। १९४० ।। नानावितानसंपन्ना रत्नस्तम्भविभूषिता । सस्यां सिंहासनं रम्यमध्यासीनः सभापतिः ।। १३४१ ॥ वामतोऽन्तःपुराणि स्युः प्रधाना दक्षिणेन तम् । पृष्ठभागे प्रधानानां कोणः श्रीकरणाधिपः ॥ १३४२ ॥ तत्संनिधौ तु विद्वांसो लोकवेदविशारदाः । रसिकाः कवयोऽप्यत्र चतुराः सर्वरीतिषु ॥ १३४३ ।। मान्याज्योतिर्विदो वैद्यान्विद्वन्मध्ये निवेशयेत् । स्याद्वामेतरभागे तु मत्रिणां परिमण्डलम् ।। १३४४ ।। तत्रैव सैन्यमान्यानामन्येषामुपवेशनम् । विलासिनो विलासिन्यः परितोऽन्तःपुराणि च ।। १३४५ ॥ पुरतोऽपि नृपस्य स्युः पृष्ठभागे तु भूपतेः । माननीयः, गात्रपात्रविवेचकः, श्रीमान् , गुणलेशस्यापि गृहीता, कौतुकासक्तः, वाग्मी, मत्सरशून्यः, नर्मनिर्माणपटुः, सुधीः, गम्भीरभावयुक्तः, सकलकालासु समर्थः, समस्तशास्त्रविज्ञानसंपन्नः, कीर्तिषु लोलुपः, प्रियवादी, पराभिप्रायज्ञः, मेधावी बुद्धिमान् ; धारणायुक्तः, तूर्यत्रयविशेषज्ञः, पारितोषिकदानवित् , सर्वोपकरणवान्, देशीमार्गविभागवित्, हीनाधिकविशेषज्ञः, प्राज्ञः, मध्यस्थेषु धीरः, स्वायत्तपरिवारः, भावकः, रसनिर्भरः, सत्यवादी, कुलीनः, प्रसन्नवदनः, स्थिरप्रीतिः, कारुण्यवान् , धर्मिष्ठः, पापभीरुः, विद्वद्वन्धुः, इत्येवंगुणोपेतः सभापतिरित्युच्यते ॥ १३३४-१३३९- ॥ इति सभापतिलक्षणम् । (क०) अथ सभास्थानं तत्र सामाजिकानां संनिवेशं चाह-~विचित्रेत्यादि । एवमिति । उक्तप्रकारेण सभां सामाजिकसमूहं संनिवेश्य Scanned by Gitarth Ganga Research Institute
SR No.034230
Book TitleSangit Ratnakar Part 04 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1953
Total Pages642
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size277 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy