________________
३९४
संगीतरत्नाकरः शृङ्गारी भूरिदो मान्यो गात्रपात्रविवेचकः । श्रीमान्गुणलवस्यापि ग्राहकः कौतुके रतः ॥ १३३४ ॥ वाग्मी निर्मत्सरो नर्मनिर्माणनिपुणः सुधीः । गम्भीरभावः कुशलः सकलासु कलासु च ॥ १९३५ ॥ समस्तशास्त्रविज्ञानसंपन्नः कीर्तिलोलुपः । प्रियवाक्परचित्तज्ञो मेधावी धारणान्वितः ॥ १३३६ ॥ तूर्यत्रयविशेषज्ञः पारितोषिकदानवित् । सर्वोपकरणोपेतो देशीमार्गविभागवित् ॥ १३३७ ॥ हीनाधिकविवेकज्ञः प्राज्ञो मध्यस्थधीरधीः । स्वाधीनपरिवारश्च भावको रसनिर्भरः ॥ १३३८ ॥ सत्यवादी कुलीनश्च प्रसन्नवदनोत्तरः । स्थिरमेमा कृतज्ञश्च करुणावरुणालयः ॥ १३३९ ॥ धर्मिष्ठः पापभीरुश्च विद्वद्वन्धुः सभापतिः ।
इति सभापतिलक्षणम् | (सु०) अथ सभासदं लक्षयति--मध्यस्था इति । मध्यस्थाः ; अवहिताः, वाग्मिनः, न्यायवेदिनः, त्रुटितात्रुटिताभिज्ञाः, विनयेन आनम्रकन्धरा:, गर्वरहिताः, रसभावज्ञा:. तौर्यत्रितयकोविदाः, असद्वादनिषेद्धारः, चतुराः, मत्सरमिदाः, अमन्दरसनियन्दिहृदयाः सभासद इत्युच्यन्ते ।। -१३३१-१३३३ ।।
इति सभासदो लक्षणम् । (क०) सभापति लक्षयति-शृङ्गारीत्यादि ॥१३३४-१३३९.॥
इति सभापतिलक्षणम् । (सु०) अथ सभापति लक्षयति-शृङ्गारीति । शृङ्गारी, बहुदाता,
Scanned by Gitarth Ganga Research Institute