SearchBrowseAboutContactDonate
Page Preview
Page 435
Loading...
Download File
Download File
Page Text
________________ ३९३ सप्तमो नर्तनाध्यायः भारस्य भूयसो वोढा प्रौढो भ्रमरिकादिषु । रज्जुसंचारचतुरश्छुरिकानर्तने कृती ॥ १३३० ॥ शस्त्रसंकटसंपातपटुः कोहाटिको मतः । इति कोल्हाटिकलक्षणम् । मध्यस्थाः सावधानाश्च वाग्मिनो न्यायवेदिनः॥ १३३१॥ त्रुटितात्रुटिताभिज्ञा विनयानम्रकंधराः। अगर्वा रसभावशास्तौर्यत्रितयकोविदाः ॥ १३३२॥ असद्वादनिषेद्धारश्चतुरा मन्सरच्छिदः । अमन्दरसनिष्यन्दिहृदयाः स्युः सभासदः ॥ १३३३ ॥ ___ इति सभासदो लक्षणम् । __ (सु०) अथ चारणं लक्षयति-किङ्किणीवाद्यवेदीति । किङ्किणीवाद्यज्ञः, विकटनर्तकैः वृतः, सर्वरागेषु मर्मज्ञः, चतुरः यः, स चारण इत्युच्यते ॥ ॥ १३२९ ॥ __इति चारणः। (क०) कोहाटिकं लक्षयति-भारस्येत्यादि ॥१३३०,१३३०॥ इति कोल्हाटिकलक्षणम् । (मु०) अथ कोल्हाटिकं लक्षयति-भारस्येति । बहुभारवोढा, भ्रमरकादिषु प्रौढः, समर्थः ; रज्जुसंचारे चतुरः, चणः ; छुरिकानर्तने पटुः; शस्त्रसंकटपाते पटुः दक्षः ; एवंविधगुणोपेतः कोल्हाटिक इत्युच्यते ॥ १३३०, १३३०-॥ इति कोल्हाटिकलक्षणम् । (क०) सभासदो लक्षयति-मध्यस्था इत्यादि ।।-१३३१-३३॥ इति सभासदो लक्षणम् । Scanned by Gitarth Ganga Research Institute
SR No.034230
Book TitleSangit Ratnakar Part 04 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1953
Total Pages642
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size277 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy