SearchBrowseAboutContactDonate
Page Preview
Page 434
Loading...
Download File
Download File
Page Text
________________ ३९२ संगीतरत्नाकरः नर्तकः सूरिभिः प्रोक्तो मार्गनृत्ते कृतश्रमः ।। १३२७ ।। - इति नर्तकः । सर्वभाषाविशेषज्ञो जनानां नर्मकर्मदः । पटुः परापवादेषु स्मृतो वैतालिको बुधैः ॥ १३२८ ।। इति वैतालिकः । किङ्किणीवाद्यवेदी च वृत्तो विकटनर्तकैः । मर्मज्ञः सर्वरागेषु चतुरश्चारणो मतः ॥ १३२९ ॥ इति चारणः।। (क०) नर्तकं लक्षयति-मार्गनृत्ते कृतश्रम इति । मार्गनृत्तं करणाङ्गहाराद्यात्मकं नृत्तम् । तत्र कृताभ्यासः ॥ -१३२७ ॥ इति नर्तकः । (सु०) अथ नर्तकं लक्षयति-नर्तक इति । मार्गनृत्ते कृतश्रमः, मार्गनृत्तं नाम करणाङ्गहारात्मकं नृत्तम् । तत्र कृत अभ्यासो येन स नर्तक इत्युच्यते ॥ -१३२७॥ इति नर्तकः । (क०) वैतालिकं लक्षयति-सर्वभाषेत्यादि । -१३२८ ॥ इति वैतालिकः । (सु०) अथ वैतालिकं लक्षयति-सर्वभाषेति । सर्वभाषासु विशेषज्ञानसंपन्नः, सभ्यजनानां नर्मकारी, परापवादेषु समर्थः, एतादृशगुणयुक्तो वैतालिक इत्युच्यते ॥ -१३२८ ॥ इति वैतालिकः । (क.) चारणं लक्षयति-किङ्किणीत्यादि ॥ १३२९ ॥ इति चारणः । Scanned by Gitarth Ganga Research Institute
SR No.034230
Book TitleSangit Ratnakar Part 04 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1953
Total Pages642
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size277 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy