________________
सप्तमो नर्तनाध्यायः
३९१ तौर्यत्रये लक्ष्यलक्ष्मवेद्याचार्यः प्रकीर्तितः ॥ १३२५ ॥ वाग्मी सुरूपवेषोऽसौ सरसस्तुतिकोविदः । समासु परिहासज्ञो भवेद्वादनवाद्यवित् ॥ १३२६ ॥
इत्याचार्यः । चतुर्धाभिनयाभिज्ञो नटो भाणादिभेदवित् ।
इति नटः। हृद्या वहनी: गीतनतर्ने विषमं च प्रहरणानुगमनम् , आभोगवादनं, कविचारान् , भावाश्रयांश्च दर्शयेत् ; सा पेरणीपद्धतिः ॥ -१३१६-१३२४- ॥
__ इति पेरणीपद्धतिः। (क०) अथाचार्य लक्षयति-तौर्यत्रय इत्यादि ।।-१३२५,२६॥
इत्याचार्यः । (सु०) आचार्यलक्षणमाह-तौर्यत्रय इति । तौर्यत्रये लक्ष्यलक्षणज्ञः, वाग्मी, शोभनरूपवेषभाक् , सरसः, स्तोत्रपटुः, सभासु परिहासवित्, मुखवाद्यज्ञः यः, स आचार्य इत्युच्यते ॥ -१३२५, १३२६ ॥
इत्याचार्यः । (क०) नटं लक्षयति-चतुर्धेत्यादि । भाणादिभेदविदिति । भाणो नाम नाटकादिषु रसाश्रयेषु दशरूपकेष्वेको रूपकभेदः । आदिशब्देन प्रहसनादीनि रूपकाणि गृह्यन्ते ॥ १३२६ ॥
___ इति नट:। (सु०) नटलक्षणमाह-चतुर्धेति । चतुर्विधाभिनयवेत्ता, भाणादिभेदवित् ; भाणो नाम दशरूपके वेको भेदः । अत्रादिशब्देन प्रहसनादीनां प्रहणम् । एतादृशगुणयुक्तो नट इत्युच्यते ॥ १३२६- ॥
इति नटः ।
Scanned by Gitarth Ganga Research Institute