SearchBrowseAboutContactDonate
Page Preview
Page 432
Loading...
Download File
Download File
Page Text
________________ संगीतरत्नाकरः पेरणी घर्घरान्कुर्यान्नाना चापडपादिकान् । ततः कूटनिबद्धेन यद्वा वर्णसरात्मना ॥ १३२२ ॥ कवितेनैष विषमं नृत्येन्निःसारुतालतः । ततः सालगसूडेन नृत्ते तत्र च दर्शयेत् ॥ १३२३ ॥ रेखां च स्थापनां हृद्या वहनीगीतनर्तनम् । विषमं च प्रहरणानुगमाभोगवादने ॥ १३२४ ॥ कविचारांस्तथा भावाश्रयान्पेरणिपद्धतौ । इति पेरणीपद्धतिः। इति । 'द्वौ गुरू द्वौ लघुद्रुतौ । ताले सरस्वतीकण्ठाभरणे शाङ्गिसंमतौ' इति लक्षणमप्यनुसंघेयम् । अपडपादिकान् नाना कुर्यादि तिसंबन्धः । हृद्या वहनीरिति । हृदयंगमान् घर्घरिकावाद्यवादनप्रकारानित्यर्थः । प्रहरणं वाघप्रबन्धानां विशेषः । तदनुगच्छत्यनुकरोतीति तथोक्तम् । विषमं पूर्वोक्तमुत्प्लुतिकरणम् ॥ -१३१६-१३२४- ॥ इति पेरणीपद्धतिः। (सु०) अथ पेरणिनः पद्धतिं लक्षयति-गौण्डलीति । यत्र गौण्डलीविधाविव रङ्गस्थाः सांप्रदायिका: गम्भीरमातोद्यध्वनि कुर्युः । ततः विधिविधीति पादत्रये विलम्बितप्राये रिगोण्युट्टवणाश्रये निःसरुतालेन द्विद्यिमाने सति, विशिष्टवाग्वेषभूषणे हास्यैकरसे नटे नृत्यति सति, रिगोण्युपशमानन्तरं पेरणी रङ्गं प्रविश्य नृत्येत् । ततो वाद्यसंघाते प्रशान्ते सति, अनन्तरं तालधरः पेरणी गारुगिताले वाद्यमाने सुनिपुणं कुर्यात् । यद्वा-सरस्वतीकण्ठाभरणे क्रियमाणे वादकैः क्रियमाणे मर्दलादेः तालसमे मन्द्रध्वनौ च सति अपडपादीन् घर्घरान् कूटनिबद्धेन वा वर्णसरात्मना वा कवितेन वा कृत्वा, एष पेरणी निःसारुतालतः विषमं नृत्येत् । तत: सालगसूडेन नृत्ते रेखां स्थापनां च Scanned by Gitarth Ganga Research Institute
SR No.034230
Book TitleSangit Ratnakar Part 04 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1953
Total Pages642
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size277 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy