________________
अथ पेरणीपद्धति:
--
सप्तमो नर्तनाध्यायः
३८९
गौण्डलीविधिवच्चात्र रङ्गस्था: सांप्रदायिकाः ।। १३१६ ॥ कुर्युर्गम्भीरमातोद्यध्वनि धिधिधिधीति । ततो विलम्वितप्राये रिगोण्युट्टवणाश्रये ।। १३१७ ॥ पादत्रये वाद्यमाने द्विर्द्विर्निःसारुतालतः । विशेद्विकृतवाग्वेषभूषो रङ्गेऽट्टबोडकः ।। १३१८ ।। तस्मिन्नृत्यति हास्यैकरसे विशति पेरणी । रिगोण्युपशमेनैष प्रविष्टो नृत्तमाचरेत् ।। १३१९ ॥ प्रशान्ते वाघसंघाते ततस्तालधरैः समम् । वाद्यमाने सुनिपुणं ताले गारुगिसंज्ञके ।। १३२० । यद्वा सरस्वतीकण्ठाभरणे वादकैस्तथा । क्रियमाणे मर्दलादेर्मन्द्रं तालसमध्वनौ ॥ १३२१ ॥
मित्यभिधीयते । भावाश्रयं लक्षयति - विकृतेति । विकृतार्थानुकरणं भावाश्रयः । कविचारं लक्षयति - कविचार इति । उत्तमनायकवर्तनं कविचारः । गीताख्यं लक्षयति- अत्रेति । सालगं गीतमित्युच्यते । तच्च द्रुतादिकम् ॥ -१३१४, १३१५-॥
इति पेरणिलक्षणम् |
(क०) अथ पेरणिनः पद्धतिमाह – गौण्डली विधिवच्चात्रेत्यादि । अत्रातिदेशेन वादकानां नादसाम्यकरणं गृह्यते । रिगोण्युट्टवणाश्रय इति । रिगोण्युट्टवणं पूर्वोक्तमनुसंधेयम् । अट्टवोडक इति सकल शिरोमुण्डिताभिधायी देशीशब्दः । संज्ञके ताल इति । " गारुगिस्तु चतुर्द्रुता । विरामान्ता" इति पूर्वोक्तं तल्लक्षणमनुसंधेयम् । यद्वेति पक्षान्तरम् | सरस्वतीकण्ठाभरण
Scanned by Gitarth Ganga Research Institute