________________
सप्तमो नर्तनाध्यायः
सभाजनमनोहारी यो नृत्यति स पेरणी ।
घर्घरो विषमं भावाश्रयश्च कविचारकः ।। १३०३ ।। गीतं चेति समाचष्ट पञ्चाङ्गानि हरप्रियः । तत्र घर्घरिकावाद्ये वहनिर्घर्घरो मतः ।। १३०४ ॥ पडिवाटचापडपः सिरिपाटो लगादिमः ।
३८५
पाटः सिरिहिराख्यश्च ततः खलुहुलाह्वयः ।। १३०५ ।। इति घर्घरभेदाः स्युः षडमी तद्विदां मताः ।
करणप्रयत्नेनैव वादनीया जङ्घयोर्बद्धा घनवाद्यभेदः किङ्किणी घर्घरिकेत्युच्यते । तस्या एकस्या एव नादव्यक्तेरभावान्नादपुष्टयै ता बहवो ग्राह्याः । अतो जालमित्युक्तम् । | घर्धरिकाणां जालं भ्राजत्स्वाकारेण नादेन च शोभमानं घर्घरिकाजालं ययोस्ते भ्राजद्धर्घरिकाजाले, तादृशे जङ्घे यस्य स तथोक्तः । शारीरपेशल इति । सुशारीर इत्यर्थः । एतेन पेरणिनैवावश्यं गातव्यमित्युक्तं भवति । पञ्चाङ्गकुशल इति । घर्घरादीनि पञ्चाङ्गान्यनुपदमेव वक्ष्यते । तेषु कुशलः ॥ - १३०१-१३०३ ॥
(सु०) अथ पेरणिनं लक्षयति - भस्मेति । भस्मादिश्वेतलिप्ताङ्गः, मुण्डं शिरः, शिखां च बिभ्रत् भ्राजत् घर्घरिकाजालजङ्घः, जङ्घयोर्बद्धा घनवाद्य मेदः किङ्किणी घर्घरिकेत्युच्यते । शारीरप्रेशल: ; सुशारीरयुक्तः, पञ्चाङ्गकुशल: ; वक्ष्यमाणेषु पञ्चाङ्गेषु समर्थः तालकलालयविचक्षणः यः सभ्यजनमनोहरं नृत्यति ; स पेरणी । पेरणिनोऽङ्गान्याह – घर्घर इति । घर्घर: ; विषमम् ; भावाश्रयः ; कविचारकः ; गीतमिति पञ्चाङ्गानि हरप्रिय: समाचष्ट ॥ ॥ - १३०१-१३०३- ॥
-
(क०) तत्र घर्घरं लक्षयति — घर्घरिकावाद्ये वहनिरिति । बनि
49
Scanned by Gitarth Ganga Research Institute