________________
१८४
संगीतरत्नाकरः मस्मादिश्वेतलिप्ताङ्गो विभ्रन्मुण्डं शिरः शिखाम् ॥ १३०१॥
भ्राजद्धर्षरिकाजालजङ्घः शारीरपेशलः । · पञ्चाङ्गकुशलस्तालकलालयविचक्षणः ॥ १३०२ ॥ रूपकैटुंतादिभिः सप्तभिर्यत्र गीते नर्तित्वा त्यागः क्रियतेऽसौ गौण्डलीविधिः ।। -१२९६-१३००- ।।
इति गौण्डलीविधिः । ___ (सु०) अतिदेशमाह-ध्रुववदिति । गीततालेन कांश्चित् गीततालाक्षरैतिदीर्धान् , नातिनीचान् , माधुर्यप्रौढिपेशलान्, रक्तियुक्तान् कांश्चित् विधाय, आदौ तालं विना, ततः सुतालकलितप्रान्तान् ध्रुवखण्डे कलासयेत् , नर्तनस्य समाप्तिं कुर्यादित्यर्थः । कलासे वादका वाद्ययातं साम्येन कालसाम्येन कुर्युः । तदा पात्रं चित्रार्पितमिव तिष्ठेत् । एवमुक्तप्रकारेण ध्रुवांशके गीयमाने पात्रं नृत्तं समाचरेत् । अथ वादकैः वाद्यमानेन आभोगेन नृत्येत् । गीतसमाप्तौ सत्यां गौण्डली ओजोन्विता स्यात् । तदा नानाविधप्रौढचारीचालकं नृत्तमाचरेत् । अत्रापि ध्रुवखण्डान्तेऽपि प्रहरणमिण्यते । अथ वाद्यसाम्येन त्यागं कृत्वा विश्रान्तिमाचरेत् । एवं ध्रुवेण नृत्तं कृत्वा, ध्रुववत् मण्ठकादिष्वपि कर्तव्यम्। तत्र विशेषमाह-विशेषस्त्विति | मण्ठादेः ध्रुवखण्डेन केवलं नर्तनं भवेत् । मण्ठे मण्ठतालेन प्रारम्भे नर्तनं कार्यम् । तत एकताल्या क्रमात् प्रतिमण्ठादौ स्वतालेनैव नर्तनं कार्यम् , एषु सालगगीतेषु द्रुतलयाश्रयं नृत्तमुक्तम् । ताण्डवे तु विलम्बितलय उक्तः । एवमुक्तपकारेण एकताल्यन्तैः सालगसूडगै रूपकैः द्रुतादिभिः यत्र गीते नर्तित्वा त्यागः क्रियतेऽसौ गौण्डलीविधिः ॥ -१२९६-१३००- ॥
इति गौण्डलीविधि: ___ (क०) अथ पेरणिनो लक्षणमाह-भस्मादीत्यादि । भस्मादिना श्वेतवर्णकद्रव्येण लिप्ताङ्गो मुण्डं व्यपरोपितकेशं शिरः शिखां च बिभ्रत् । भ्राजर्षरिकाजालजङ्घ इति । पेरणिनो नर्तनस्य चारीप्रधानत्वेन चारी
Scanned by Gitarth Ganga Research Institute