SearchBrowseAboutContactDonate
Page Preview
Page 425
Loading...
Download File
Download File
Page Text
________________ सप्तमो नर्तनाध्यायः मण्ठादेधुर्वखण्डेन केवलं नर्तनं भवेत् ।। १२९७ ।। मण्ठे तु मण्ठतालेन प्रारम्भे नर्तनं मतम् । ततः स्यादेकताल्यैव मण्ठनृत्तं क्रमात्क्रमात् ।। १२९८ ॥ नर्तनं प्रतिमण्ठादौ स्वतालेनैव कीर्तितम् । एषु सालगगीतेषु नृत्तं द्रुतलयाश्रयम् ।। १२९९ ॥ विलम्बितो लयस्तुक्तस्ताण्डवे पण्डितैः सदा । रूपकैरेकताल्यन्तैरेवं सालगसूडगैः ।। १३०० ।। नर्तित्वा क्रियते त्यागो यत्रासौ गौण्डलीविधिः । इति गौण्डली विधि: । ३८३ - नृत्येदिति । मण्ठादिषु विशेषं वक्तुमाह – विशेषस्त्विति । मण्ठादेर्ध्रुवखण्डेन केवलं नर्तनं भवेदिति । ध्रुवखण्डवत्स्थायप्रयोगो न कर्तव्य इत्यर्थः । अयं च निषेधो यत्र ध्रुवमारभ्य सूडक्रमेण नर्तनं क्रियते तत्रैव द्रष्टव्यः । यत्र तु मण्ठादिष्वन्यतममारभ्य वा मण्ठादेरेकैकस्य वा प्राधान्येन नर्तनं क्रियते, तत्रारब्धे मण्ठादौ स्वतन्त्रे वा मण्ठादौ स्थायप्रयोगः कर्तव्य एवेति संप्रदायोऽवगन्तव्यः । प्रतिपण्ठादौ स्वतालेनैति मण्ठ| द्वैषम्योक्तिः । सालगगीतेषु द्रुतलयाश्रयं नृतमिति । एषु सालगगीतेषु उक्तस्य नृत्तस्य लास्यप्रायत्वेन मृदुत्वादस्य विलम्बलययोगे सत्यत्यन्त मृदुत्वप्रतीत्या सामाजिकानां प्रीतिं न जनयति । द्रुतलययोगे तु लास्यगतसौकुमार्यस्य परभागाच्छोभा भवति ; तथा -- ताण्डवे तु विलम्बितलय इति । ताण्डवस्योद्धतत्वेन तस्य द्रुतलययोगे सत्युद्धततमत्वप्रतीतेः पूर्वोक्त एव दोषः । विलम्बलययोगे तु पूर्ववत्परभागसंभवाद्द्द्द्श्यत्वं भवतीत्यभिप्रायः । यथा लोके नीलवस्त्रे निक्षिप्तं मुक्ताफलं शुभ्रांशुके वा निहितमिन्द्रनीलं नितरां शोभते तथेत्यर्थः । रूपकैरिति । एवमुक्तप्रकारेणैकताल्यन्तेः सालगसूड गै Scanned by Gitarth Ganga Research Institute
SR No.034230
Book TitleSangit Ratnakar Part 04 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1953
Total Pages642
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size277 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy