________________
३८२
संगीतरत्नाकर:
नृत्तं समाचरेत्पात्रं गीयमाने ध्रुवांशके ।। १२९३ || आभोगेनाथ नृत्येच वाद्यमानेन वादकैः । गौण्डल्य जोविता सा स्याच्यागे संनिहिते सति ॥ १२९४ ॥ नानाविधपौढचारीचालकं नृत्तमाचरेत् ।
अत्र प्रहरणं वाद्यमाभोगेऽप्येतदिष्यते ।। १२९५ ।। कृत्वाथ वाद्यसाम्येन त्यागं विश्रान्तिमाचरेत् । कृत्वा नृत्तं ध्रुवेणैवं ध्रुववन्पण्ठकादिभिः ।। १२९६ ।। क्रमान्नृत्येद्विशेषस्तु तेषामेषोऽभिधीयते ।
सत्वित्यर्थः । ध्रुवांशके ध्रुवस्यांशभूते भुवाख्ये खण्डे, गीयमाने सति नृतं समाचरेत् । अथ अनन्तरं वादकैः वाद्यमानेन आभोगेन ध्रुवान्त्यखण्डेन नृत्येत् । त्यागे गीतसमाप्तौ संनिहिते सति सा गौण्डली नर्तकी, ओजोन्विता बलयुक्ता स्यात् । तदा तथाभूता सती, नानाविधप्रौढचारीचालकम् ; चार्यश्च चालकाश्चेति द्वन्द्वः, प्रौढाच ते चारीचालकाश्चेति कर्मधारयः । नानाविधाः प्रौढचारीचालका यस्मिन्निति बहुव्रीहिः । तादृशं नृत्तमाचरेत् । अत्राभोगेऽप्येतत्प्रहरणं वाद्यमिष्यत इति । अत्रापिशब्देन ध्रुवखण्डान्तेऽपि प्रहरणं वाद्यप्रयोगो द्योत्यते । अथ वाद्यसाम्येन त्यागं कृत्वा विश्रान्तिमाचरेत् || १२९०-१२९५- ॥
(सु० ) कांश्चिदिति । मण्ठप्रतिमण्ठादि तालयुक्तं सकलं ध्रुवकं गीत्वा, वाद्यमानया जक्कया श्लक्ष्णं गीयमानध्रुवखण्डयुक्तं मेलापकोपेतै: गायकैः ईषद्वधक्तीकृतं नृत्तं किंचित् कृत्वा, गीतवाद्यशान्त्यनन्तरं नानास्थायान् कृत्वा, मुदुर्ध्रुवपदं गीत्वा, नर्तनं कुर्यात् ॥ १२९०-१२९५- ॥
(क०) ध्रुवोक्तं मण्ठादिष्वतिदिशति - भुववन्मण्ठकादिभिः क्रमाScanned by Gitarth Ganga Research Institute