________________
३८०
संगीतरत्नाकरः श्लक्ष्णं ध्रुवाख्यखण्डेन गीयमानेन संततम् । गायनैर्मेलकोपेतैर्मनोव्यक्तिमनोहरम् ॥ १२८८ ॥ नृत्तं किंचिद्विधायाथ शान्तयोर्गीतवाद्ययोः ।
विधाय विविधस्थायान्मुहुर्धवपदं ब्रजेत् ॥ १२८९ ॥ भवति तथा । वाद्यमानया जकयेति । जक्का नाम यतिरेवोच्यते । 'यतिर्जका च सा' इति प्रागुक्तत्वात् । तया जक्कया सह मेलापकोपेतैर्गायनैः संततं गीयमानेन ध्रुवाख्यखण्डेन ध्रुवकस्य गीतस्य मध्यखण्डेनोपलक्षितम् । मनोव्यक्तिमनोहरमिति । मनो नाम प्रागुक्तलक्षणं लास्याङ्गम् । तस्याभिव्यक्त्या मनोहरं नृत्तम् किंचिद्विधाय ; अल्पमेव कृत्वा । अथ ; अन. न्तरम् , गीतवाद्ययोः; शान्तयोः सतोः, विविधस्थायान् ; बहुप्रकारान् रागावयवान् विधाय । ध्रुवपदं मुहुर्बजेदिति । नर्तकीकर्तृकत्वेन विधानान्मध्ये मध्ये विविधस्थायानां नर्तनं कृत्वा मुहुर्मुहुर्बुवपदस्यापि नर्तनं कुर्यादित्यर्थः ॥ -१२७३-१२८९ ॥
(सु०) गौण्डल्या विधिं लक्षयति-वाद्यप्रबन्धैरिति । कठिनैः वाद्यप्रबन्धैः, एलादिभिः प्रबन्धैश्च त्यैक्तैः, गीतैः तत्तद्धवाश्रितैः, सालगसूडस्थप्रबन्धैः, केवललास्याङ्गैः, कोमलाङ्गैश्च यत् पात्रं नृत्यति, स्वयं गायति, त्रिवलीवायं च वादयति, तद् गौण्डलीत्युच्यते । अत्र त्रिवलीवाद्यवादनं नास्तीति केचित् । यत्र स्कन्धे त्रिवलीं कृत्वा, अशारीरेण स्त्रियो गायन्ति, सा मूकगौण्डली । भत्र कर्णाटदेशमण्डनं गौण्डल्या कार्यम् । तत्पद्धति: गौण्डलीविधिरित्युच्यते । यत्र कर्णाटमण्डलमण्डिता: सांप्रदायिका: प्रथममेकताल्या मेलापकं वादयन्ति, तत: येन केनापि तालेन गजरे वाद्यमाने सति, नि:सारुणा वा, एकताल्या वा उपशमे प्रारभ्यमाणे सति, पात्रं रङ्गमध्यं प्रविश्य, तत्र पुष्पाञ्जलिं प्रक्षिप्य, नर्तनं कुर्यात् । तत: गजरोपशमेनैव सर्वाङ्गनर्तनं कार्यम् । अतालनिःसार्वेकतालीयुक्तया रिगोण्या, ततः तालनियमविहीनाभ्यामवत्सकविताभ्यां क्रमात्
Scanned by Gitarth Ganga Research Institute