________________
३७९
सप्तमो नर्तनाध्यायः नानाविधं पुनर्नृत्येद्रिगोण्योहवणात्मना ॥ १२८४ ॥ निवारितेषु वाघेषु दत्ते स्थानेऽय वांशिकैः। सह गायति संयुक्तस्तैः सार्धमय गौण्डली ॥ १२८५ ॥ उच्चार्य स्थायिनं कुर्याद्रागालतिं चतुर्विधाम् । अन्या वा गायनी मुख्या विविधालप्तिमाचरेत् ॥ १२८६ ॥ मण्ठकात्मतिमण्ठाच्च तालेनान्येन संयुतम् ।
सकलं ध्रुवकं गीत्वा जकया वाद्यमानया ॥ १२८७ ॥ उदृवणात्मनेति । रिगोण्यामप्यादौ वैकल्पिकस्योदृवणस्योक्तत्वादत्रापि रिगोण्यादौ ललितमुट्टवणं प्रयोक्तव्यमित्यर्थः । तेन रिगोण्युट्टवणात्मा भवति । उट्टवणलक्षणमपि
'निजैर्या तद्धिथोंदेभिर्व्यापकैरक्षरैस्तथा । पाटेर्वा रचिता किंचिद्विलम्बितलयाश्रया ।
देंकारालंकृतायन्ता वदन्युट्टवणाममूम् ' ॥ इति पूर्वोक्तमनुसंधेयम् । उदृवण इव चोवणम् । अथवा प्रवन्धान्तरस्याङ्ग तया तदादौ वाद्यमाना यतिरेवोट्टवणमित्युच्यते । यथोक्तं प्राक् -
'आदौ वाद्यप्रबन्धस्य कस्याप्यतया यदा ।
तद्विदो वादयन्त्येतां वदन्त्युट्टवणं तदा' ॥ इति । तदात्मता वा ज्ञेया । अथ वांशिकैः स्थाने दत्त इति । स्थान नास मन्द्रादिष्वेकतमम् । चतुर्विधां रागालप्तिमिति । स्वस्थानचतुष्टययुक्तामित्यर्थः । विविधालप्तिमिति । भञ्जनीप्रतिग्रहणकादिनानाभेदयुक्तां रूपकालप्तिं रागालप्तिं चेत्यर्थः । मण्ठकात्मतिमण्ठाच्चान्येन तालेनेति । मण्ठकप्रतिमण्ठकव्यतिरिक्तेन देशीतालेष्वन्यतमेनेत्यर्थः । श्लक्ष्णं मृदु यथा
Scanned by Gitarth Ganga Research Institute