________________
संगीतरत्नाकरः तत्रत्यां पद्धर्ति पाहुस्तद्विदो गौण्डलीविधिम् । सा देशीपद्धतिस्तूक्ता तल्लक्ष्म महेऽधुना ॥ १२७८ ॥ कर्णाटमण्डलैर्युक्तास्तत्र स्युः सांप्रदायिकाः । पूर्ववत्समनादत्वमातोद्यानां विधीयते ॥ १२७९ ॥ मेलापकं वादयेयुरेकताल्या समाहिताः । येन केनापि तालेन गजरे वादिते सति ॥ १२८० ॥ निःसारणैकताल्या वारब्धस्योपशमे सति । पात्रं प्रविश्य रङ्गस्य मध्ये पुष्पाञ्जलिं क्षिपेत् ॥ १२८१ ॥ आविष्कुर्वत्सव्यवामपुरोगाण्यथ नृत्यतः । गजरोपशमेनैव ततः सर्वाङ्गनर्तनम् ॥ १२८२ ॥ अहतालं निसारं चैकतालीं श्रितया ततः । रिगोण्या तालनियमरहिताभ्यामतः परः ॥ १२८३ ॥
अवत्सकविताभ्यां च क्रमानर्तनमाचरेत् । गङ्गाशब्देन तटवद्गौण्डल्या नर्तनमाश्रयाश्रयिभावेन गौण्डलीत्युपचर्यत इत्यर्थः । तत्रत्यामिति । तत्र गौण्डल्यां भवां पद्धर्ति गौण्डलीविधि प्राहुः । सा तु; गौण्डलीभवा पद्धतिस्तु देशीपद्धतिरुक्ता । अत्र तुशब्देन शुद्धपद्धतेरुपचारतो मार्गत्वं द्योतितं भवति । आरब्धस्योपशमे सतीति । अस्य गजरस्योपशम उपशमाख्ये खण्ड उपक्रान्ते सति । सव्यवामपुरोगाण्याविष्कुर्वदिति । सव्यानानि सव्यभागप्रवर्तितानि; वामानानि वामभागप्रवर्तितानि; द्विविधानि तानि विषमाझाणीत्युच्यन्ते । पुरोगाणि पुरोभागप्रवर्तितानि समाजानीत्युच्यन्ते । आविष्कुर्वत्प्रकाशयत्पार्थक्येन दर्शयत् । सर्वाङ्गनर्तनमिति । सव्यवामपुरोगाणां मिश्राणां नर्तनमित्यर्थः ।
Scanned by Gitarth Ganga Research Institute