________________
सप्तमो नर्तनाध्यायः अथ गौण्डलीविधिः
वाद्यप्रबन्धैः कठिनैस्त्यक्तमेलादिभिस्तथा ॥ १२७३ ॥ गीतैः सालगसूडस्थैः प्रबन्धैर्यद् ध्रुवादिभिः । लास्याङ्गैः केवलैरङ्गैः कोमलैश्चैव नृत्यति ॥ १२७४ ।। स्वयं गायति वाद्यं च त्रिवली वादयेत्स्वयम् । तत्पात्रं गौण्डली केचिद्वादनं नात्र मन्वते ॥ १२७५ ॥ त्रिवलीधारणं स्कन्धे ग्राम्यत्वं कुरुते स्त्रियाः । अगायन्ती त्वशारीरा सैव स्यान्मूकगौण्डली ॥ १२७६ ॥ गौण्डल्या मण्डलं प्रोक्तं तज्ज्ञैः कर्णाटदेशजम् । तस्याश्च नर्तनं पाहु\ण्डली लक्षणाश्रयात् ।। १२७७ ॥
प्रबन्धैः समाङ्गैः विषमाङ्गैः, उभयैर्वा नृत्यं कुर्यात् ; अन्ये प्रवेशात् प्राक् समहस्तस्य वादनं प्राहुः । तन्मते समपादस्थानेनैव पात्रप्रवेशः; अन्ये तु गीतवाद्यमानं प्राहुः ।। १२६०-१२७२- ॥
इति शुद्धपद्धतिः।
(क०) अथ गौण्डल्या विधिमाह-वाद्यपबन्धैरित्यादि । कठिनैर्वाद्यप्रबन्धैर्दीतनर्तनप्रयोज्यैरोताकवितादिभिस्त्यक्तं वर्जितम् । एलादिभिगीतस्तथेति । वर्जितमित्यर्थः । सालगमूडम्यैर्भुवादिभिः; प्रबन्धैः, लास्याङ्ग, चार्यादिभिः । केवलैः कोपलैरिति । किंचिदप्यनुद्धतैः । उक्तैर्धवादिभिरेव नान्यरित्यर्थः । यत्पात्रमेतैरेव नृत्यति । स्वयं गायति स्वयं त्रिवली वाद्यं वादयेदिति । तूर्यत्रयमप्येकाश्रयं कर्तव्यमिति भावः । तत्सात्रं गौण्डलीत्युच्यते । तस्याश्चेति । तस्या गौण्डल्या नर्तनं च लक्षणाश्रयात् लक्षणाया वृत्तेराश्रयात् गौण्डली प्राहुः । यथा गङ्गायां घोष इत्यत्र
Scanned by Gitarth Ganga Research Institute