________________
३७६
संगीतरनाकरः प्रबन्धैः, एलादिभिः । निजेच्छया गीयमानैरिति । सूडक्रमं विहाय चेत्यर्थः । त्रिविधं नर्तनमिति । समविषमोभयात्मकमित्यर्थः । अथवा नाट्यनृत्यनृतभेदेन त्रिविषं नर्तनं विधायेति । अयमर्थः- यदा रसाश्रयत्वेन गीतार्थाभिनयः क्रियते, तदा नाट्यम् । यदा भावाश्रयत्वेन गीतार्थोऽभिनीयते तदा, नृत्यम् । यदा गात्रविक्षेपमात्रेण गीतमात्रमनुक्रियते, तदा नृत्तमिति । पात्रप्रवेशस्य पाक्षिकं कालमाह-गजरेति । गजरानन्तरमुपशमवादनं यदा नास्ति, तदा पात्रं, तदारम्भे गजरारम्भे प्रविशेदिति तद्विद आहुः । यदा गजरानन्तरमुपशमवादनमस्ति, तदोपशमारम्भ एव पूर्वोक्तप्रकारेण पात्रप्रवेशः कर्तव्य इति । इयं पद्धतिलोंके जनैः परिविडिरित्युक्ता । समहस्तादिभिरिति । समहस्तादयः पाटा वाद्याध्यायोक्ता द्रष्टव्याः । केवलयोगीतवाद्ययोः प्रयोगमिति । गीतवाद्ययोः केवलत्वं समहस्तादिपाटराहित्येन द्रष्टव्यम् । अत्र वाद्यशब्देन मुखवाद्यमुच्यते । तेन तत्प्रबन्धा यत्यादयोऽवगन्तव्याः । अत्रायमर्थः-एलादयो गीतप्रबन्धाः, यत्यादयो वाद्यप्रबन्धाः स्वस्वोपरखकमुरजादिवादनरहिता अपि नर्तने प्रयोक्तव्या इति केषांचिन्मतम् । अपरेषां मतमाह-एकैकश इति । केवलं गीतप्रबन्धानां केवलं वाद्यप्रबन्धानां वा प्रयोग इत्यर्थः ॥ १२६०-१२७२- ॥
इति शुद्धपद्धतिः । (सु०) संप्रदायस्य शुद्धपद्धतिं लक्षयति-संगीतज्ञैरिति । यत्र संगीतज्ञैः साकं प्रेक्षमाणे सति, रङ्गभूमिं प्रविष्टे तु सांप्रदायिके वाद्यनादसाम्यं कृत्वा, अवस्थितमनाः सन्तः, मेलापकं पूर्वोक्तलक्षणलक्षितं प्रबन्धं, ततो गजरं वादयत्सु सत्सु, यवनिकान्तरितं सकुसुमाञ्जलिकं पात्रं सौष्ठवाश्रितस्थानकमालम्ब्य, यवनिकापसरणानन्तरं रङ्गभुवं प्रविश्य, वादके प्रबन्धैर्वाद्यमाने, रङ्गपीठमध्ये पुष्पाञ्जलिं विकिरेत् । तत: नृत्तानेः मनोहरं नृत्येत् । तत: पदमोता च कवितं, मलपावत्सकावपि, रिगोणीतुडुकाद्यैः नियतकमैर्वा स्वेच्छाकृतक्रमै
Scanned by Gitarth Ganga Research Institute