________________
सप्तमो नर्तनाध्यायः वाधमाने प्रबन्धे चोपशमादौ च वादकैः। सुभङ्गि रङ्गपीठस्य मध्ये पुष्पाञ्जलिं क्षिपेत ॥ १२६४ ॥ यतः स्वयं सुरज्येष्ठो मध्येरङ्गमधिष्ठितः। ततः प्रहर्षसंपन्नं नृत्ताङ्गैरेव केवलै ॥ १२६५ ॥ वाद्येनोपशमेनात्र नृत्येत्पात्रं मनोन्वितम् । पदमोना च कवितं मलपावत्सकावपि ।। १२६६ ॥ रिगोणी तुडुकेत्येभिः प्रवन्धैर्नियतक्रमैः । स्वेच्छाकृतक्रमैर्यद्वा वाद्यमानैः समन्ततः ।। १२६७ ॥ सपाङ्गैर्विषमाङ्गोभयैर्वा नृत्तमाचरेत् । ततः शुद्धप्रबन्धैश्च गीयमानैर्निजेच्छया ॥ १२६८ ॥ पात्रं विधाय त्रिविधं नर्तनं स्थानमाचरेत् । गजरानन्तरं नास्ति यदोपशमवादनम् ।। १२६९ ॥ पात्रं तदा तदारम्भे प्रविशेदिति तद्विदः । इति पद्धतिरुक्तेयं प्रोक्ता परिविडिर्जने ॥ १२७० ॥ वादनं समहस्तस्य प्राक्प्रवेशात्परे जगुः । समहस्तादिभिः पाटैः सुवृत्तैः पृष्ठसौष्ठवैः १२७१ ॥ स्थितेन समपादेन प्रवेशं ते प्रचक्षते । केचिदाहुः केवलयोः प्रयोगं गीतवाद्ययोः ॥ १२७२ ॥ एकैकशः प्रयोगोऽपि गीतादेः कैश्चिदिष्यते ।
इति शुद्धपद्धतिः । अनुसंधेयाः । समाविषमाङ्गैर्योभयैर्वा वृत्तमाचरेदिति । समाज्ञैश्चतुरश्राश्रितैः, विषमाङ्गः, व्यश्रताश्रितैः, उभयैरुभयाश्रितैर्वाङ्गनृत्तं कुर्यात् । शुद्ध
Scanned by Gitarth Ganga Research Institute