SearchBrowseAboutContactDonate
Page Preview
Page 414
Loading...
Download File
Download File
Page Text
________________ ३७२ संगीतरत्नाकरः यत्रको मुखरी श्रेष्ठस्तथा प्रतिमुखर्यपि । द्वावावजधरावड्डावजौ च करटाधरौ ॥ १२५२ ॥ नृतादिषु सर्वेषु लक्ष्येषु तत्त्वज्ञेन भवितव्यम् । न तु तत्तत्कर्मका' इति ॥ -१२४७-१२५१ ॥ इत्युपाध्यायलक्षणम् । (सु०) उपाध्ययं लक्षयति-रूपवानिति | रूपवान् ; गम्भीराकृतियुक्तः, कोहलभरतादिशास्त्रतत्त्वज्ञः, अभिनयोपदेष्टा उपाध्याय इत्युच्यते । नृत्ततत्त्वज्ञ: ; गात्रविक्षेपमात्रलक्षणस्य तत्त्वं तालादि जानातीति तथोकः ; प्रहमोक्षविचअण: ; गीतवाद्ययोरुपक्रमोपसंहारे कुशल: ; समादिग्रहविज्ञश्च ; तानोक्ता समातीतानागता ये ग्रहा:; तान् विशेषतो जानातीति तथोक्तः ; वाद्यवादनवेदिता; ततादिवाद्यानां वादनविषये समर्थः; संप्रदयागतज्ञान: ; गुरूपदेशपरंपरायातज्ञानसंपन्नः ; ध्वनिमाधुर्यतत्त्ववित् ; ध्वने: नादस्य माधुर्यमर्मवित् ; स्थायाधिक्योनताभिज्ञ: ; स्थायाः, रागावयवाः, तेषां न्यूनाधिक मर्मज्ञः ; लयतालयो: कुशल: ; लयतालेषु समर्थः ; वाद्यप्रबन्धनिर्माता, पूर्वोक्तवाद्यप्रबन्धानां निर्माणे कुशल: ; मुखबायेषु कोविद ; मुरजादिवायेषु पण्डितः; नूनभङ्गीनामुद्देत्ता; तौर्यत्रयेषु नूतनप्रकाराणामुत्पादकः; शिष्यशिक्षणदक्षिण ; शिष्याणां शिक्षणे अभ्यासविषये समर्थः ; नृत्तगीतवाद्य यवस्थिते: प्रतिष्ठापयिता; नृत्तगीतवाद्यानां व्यवस्थायाः प्रतिष्ठापक ; हृदयं प्रविष्ट ; नतकेन स्वहृदयं प्रविष्ट इत्यर्थः; यद्वा पात्रस्य हृदि स्वयं प्रविष्टश्चेति ; उपाध्यायपात्रहृदययोरेकीभावेन भवितव्यमित्यर्थः । रञ्जकः ; जनचित्ताकर्षक: ; नृत्तदोपविधानवित् ; अभिनयस्य दोषज्ञः ; एवंगुणविशिष्ट उपाध्यायः स्यादित्यर्थः ॥ -१२४७-१२५१ ॥ __ इत्युपाध्यायलक्षणम् । (क०) अथ संपदायं लक्षयति-यत्रैक इत्यादि । अत्र नर्तनो Scanned by Gitarth Ganga Research Institute
SR No.034230
Book TitleSangit Ratnakar Part 04 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1953
Total Pages642
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size277 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy